पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
180
[अयोध्याकाण्ड:
रामानयनोद्यम:


 अपि तु तस्य वनवासं प्रति सङ्गत्या-पितुराज्ञासंगमात्, तव च राज्यं प्रति पित्राज्ञासंगमात्, पित्राज्ञाया उभाभ्यामपि कर्तव्यत्वात्, अतः पितुराज्ञामूलतो राजतायां भवान् नापरोध्नोति- धर्मविरोधं ज्येष्ठविरोघं लोकविरोधं च न प्राप्नोति । अता न्यायत एव त्वयि राजनि सति एतद्राज्यं चाराजकं सत् नापराध्नोति--न नश्यति । बहुवदति सङ्गत्येत्यत्रान्यः [१] , न तत् किमपि सङ्गतं पश्यामः ॥ ३ ॥

आभिषेचनिकं सर्वमिदमादाय, राघव !
प्रतीक्षते त्वां स्वजनः श्रेणयश्च, नृपात्मज ! ॥ ४ ॥

 आभिषेचनिकं - अभिषेकप्रयोजनं पदार्थजातं, रामाभिषेकविषयकं, 'तत्प्रयोजनम्' इति ठक् । स्वजन इति -- स्वकीयमन्त्रिपुरोहितादयः । श्रेणयः -पौराः ॥ ४ ॥

राज्यं गृहाण, भरत ! पितृपैतामहं ध्रुवम् ।
अभिषेचय चात्मानं पाहि चास्मान्, नरर्षभ ! [२] ॥५॥
 [३]आभिषेचनिकं भाण्डं कृत्वा सर्व प्रदक्षिणम् ।
[४]भरतस्तं जनं सर्वं प्रत्युवाच [५]धृतव्रतः ॥ ६ ॥

 भाण्डं---उपकरणम् ॥ ६॥


  1. महेश्वरतीर्थः, गोविन्दराजो वा ।
  2. एतदनन्तरं - ’एवमुक्तः शुभं वाक्यं द्युतिमान् सत्यवाक् शुचिः’ इत्यधिकं - ङ.
  3. 'सर्वमिदमादाय’ इत्यनुपदमुक्तया तैस्तत्रैवानीतं सर्वमिति गम्यते ।
  4. एतदर्धस्थाने ’भरत: स्वं जनं सर्वं सरोषमभिवीक्ष्य च । क्षणं विधाय कर्णौ स: प्रत्युवाच धृतव्रतः इत्यर्धद्वयं दृश्यते-ङ.
  5. दृढव्रतः - ङ.