पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९ सर्ग:]
179
राज्यं नैच्छत्तु भरत: मत्न्रिभिः प्राधितोऽपि सन्


एकोनाशीतितमः सर्गः

[ रामानयनोद्यमः]

ततः प्रभातसमये दिवसे च चतुर्दशे ।
समेत्य [१] राजकर्तारः भरतं वाक्यमब्रुवन् ॥ १ ॥

 अथ राजकर्तृभिरभिषेकप्रार्थितभरतेनानौचित्यतोऽभिषेकनिवर्तनपूर्वकं रामानयनायोद्युज्यते । तत इत्यादि ॥ १ ॥

गतो दशरथः स्वर्गं यो नो [२]गुरुतरो गुरुः ।
रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ २ ॥

 अतिशयेन गुरुः गुरुतरः, ’राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम्' इत्यादेर्मातापित्रादेरपि स्वात्मरक्षासाक्षात्साघनत्वात् राजा गुरुः । ज्येष्ठः – राज्यार्हः ॥ २ ॥

त्वमद्य भव नो राजा, राजपुत्र ! महायशः !
[३]सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ॥ ३ ॥


  1. राज्य-ङ.
  2. राजा गुरुस्तव, गुरुतरो महान्-ङ.
  3. संगत्या-सामन्तामात्यादीनामैकमत्येन अनायकमप्येतद्राज्यं नापराध्नोति-राज्यस्थजनजातं अन्योन्यं न द्रुह्यतीत्यर्थः । यद्धा-एवं राज्यमनायकमपि संगत्या
    इदं तु राज्यं दैवयोगेन न नश्यति । अतस्त्वं नो राजा भवेति सम्बन्ध:-ती. दैवगत्या नापरोध्नोति-न विनश्यति । सर्वमपि राज्यं नायकरहितं सन्नश्यति,
    'राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम्' इति मातापित्रादेरपि राज्ञ एवान्तरङ्गरक्षकत्वोपदेशात् अनायकमपि एतद्राज्यं संगत्या - दैवयोगेन नापराध्नोति-
    राज्यस्य जनजातमन्योन्यं न दुह्यतीत्यर्थ:-गो. वस्तुतस्तु–संगतिः -सङ्घटना-सन्निवेशः । इदं राज्यं त्वनायकं वर्तते । भवत्प्रार्थनामन्तरैवागतं च
    वर्तते । एतादृशसन्निवेशविशेषे एतद्राज्यस्वीकारे भवान् नापरोध्नोति --भवत: अपराधप्रसक्तिरेव नास्ति, अत: स्वीक्रियतामित्यर्थः स्वरसः प्रतिभाति ।