पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
178
[अयोध्याकाण्ड:
कुब्जापरिभवः


 हन्यामहमिति । हे शत्रुघ्न ! अहमेवेमां हन्याम्, यदि मातृघातकं मां प्रति नासूयेत्-न कुप्येदिति यावत् ॥ २२ ॥

इमामपि हतां कुब्जां यदि जानाति राघवः ।
त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् [१] । ॥

 कुब्जामपि हतां, यदि जानाति, तदा स्त्रीघातिनाविति त्वां च मां चैव नाभिभाषिष्यते ॥ २३ ॥

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।
न्यवर्तत ततो [२]रोषात् तां मुमोच च मन्थराम् ॥ २४ ॥
सा पादमूले कैकेय्या मन्थरा निपपात ह ।
निश्वसन्ती सुदुःखार्ता कृपणं विललाप च ॥ २५ ॥
शत्रुघ्र [३] विक्षेपविमूढसंज्ञां
समीक्ष्य कुब्जां भरतस्य माता ।
शनैः समाश्वासयदार्तरूपां
क्रौञ्चीं [४][५] विलग्नामिव वीक्षमाणाम् ॥ २६ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः


तार(२६)मानः सर्गः ॥ २६ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टसप्ततितमः सर्गः



  1. इति शत्रुघ्नमब्रवीदित्याकर्ष:
  2. रोषादेव, न तु शमेनेति भावः ।
  3. विक्षेपः-भ्रामणं - गो.
  4. विलग्नां-वागुरालग्नमिति भावः, विविग्नामिति पाठे कम्पवतीमित्यर्थः - गो.
  5. विविधामिव-ङ.