स निरीक्ष्य ततो [१]वीरं रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यां इदं वचनमब्रवीत् ॥ ५ ॥
स निरीक्ष्येति । उक्तवचनतो योगात् उत्थाय रामं दृष्ट्वेत्यर्थः ॥
सनाथ इव-सस्वामिक इव सांप्रतमभूत् । आन्तराशयस्तु- आब्रह्मचर्या द्याश्रमव्यवहारार्होऽयं देहः त्वया - जीवात्मकत्वत्तेजसा आक्रान्तः, सोऽत्र 'आलोमभ्यः आनखेभ्यः सर्वस्स आङ्ग आध्यते ' इति यावत्परित्यागं नित्यव्याप्तः, अत एव त्वदेकसनाथः-- प्रत्यक्तत्त्वभूतत्वदेकाधिष्ठेयः इत्यावेवादात् तादृशोऽयं विशिष्य सांप्रतं सनाथ:- -बहिश्चक्षुषोऽपि अपरोक्षसिद्धत्वदनुभवत्वात्; ब्रह्म- लोक एव किल बहिश्चक्षुषाप्यनुभवः भगवतः तथा प्रादर्शि ॥ ६ ॥
प्रतीक्षमाणस्त्वामेव नारोहेऽहं, महायशः !
देवलोकमितः, वीर ! देहं त्यक्ता [५]महीतले ॥ ७॥
त्वामेवेति – ब्रह्ममेघप्रधानहविर्देवतामित्यर्थः । महीतले- कर्मभूप्रतिष्ठावति [६] ब्रह्ममेघाग्नौ देहं त्यक्ता - हुत्वा इतः- देहलोकाभ्यां
- ↑ धीर:- ङ.
- ↑ ते नरश्रेष्ठ - ङ.
- ↑ सत्यभृतां ङ. ज.
- ↑ सनाथ इव - सनाथ एव । यद्वा सर्वदा त्वया सनाथत्वेऽपि, पामराणां
समाथत्वप्रतिभा इदानीं जातेत्यर्थः- गो. यतस्त्वयायमाश्रमः समाकान्तः तस्मात
सतं- इदानीं सनाथ इवास्मीति शेष:-रा. स्वरसतस्तु सनाथपदं आश्रम विशेषणम् । - ↑ महीतलात्- ङ.
- ↑ शरणाप्येवमेवोक्ताऽग्निप्रवेशकरणात सुतीक्ष्णोऽप्यसिं प्रविवेशेति मत्वा व्याख्यातम् । परन्तु एकादशसमें 'रमतश्चानुकूल्येन ययुः संवत्सरा दश' 'सुतीक्ष्ण- श्रमपदं पुनरेवाजगाम ह' (१८) 'सुक्षिण: प्रत्युवाचेदं' (३६) इति च दर्शनात, न भगवत् सुतीक्ष्ण: अग्निं विवेशेति गम्यते 1 अतः "एतलोकं त्यक्ता देवलोकं न गतः ' इति सामान्योक्तिरियमिति भाति ।