पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
48
[अरण्यकाण्डः
सुतीक्ष्णसन्दर्शनम्



 विमलं- पवित्रम् । महामेघमिव स्थितमिति । अयं वृक्ष- बाहुल्यमूलॅनैल्यांश स्थौल्ययोः दृष्टान्तः । उन्नतमिति स्वरूपवर्णनम् ||

तत्र तापसमासीनं [१] मलपङ्कजधारिणम् ।
रामः सुतीक्ष्णं विधिवत् [२]तपोवृद्धं [३]अभाषत ॥ ३ ॥

 तत्र - तन्महाशैलवर्तिनि आश्रमे । मलपङ्कजधारिणं-मलस्य- सर्वाघस्य शुद्धये पङ्कजं पद्मासनं आस्थाय योगधारणशीलं । मध्यम- पदलोपी समासः | अथ " रागद्वेषयोगजाघात्" प्रसिद्धस्य मलमूल- कारणाघस्य क्षयाय पङ्कजे- हृदयपङ्कजे अकृतकभगवद्ब्रह्मानन्यता योगधारणशीलम् । एवं दिव्ययोगवत्त्वमेव अग्रे वक्ष्यमाणस्य देवराजेन ब्रह्मलोक प्रस्थानप्रार्थनस्य मूलम् । एवं पाङ्क्ते स्थिते महामेघमिवोन्नत- मित्यनन्तरं कंचन श्लोकद्वयं प्रक्षिप्य पठित्वा तस्य च कष्टपिष्टिक्रिया- व्याख्यानन्तरं, मलपङ्कजटाघरं इति पठित्वा पाउं नाशयति [४] पाङ्क्त- पाठव्याख्यानाशक्तचा, तद्दोषं सोऽनुभवतु । विधिवदिति। उपगम्येति शेषः ॥ ३ ॥

रामोऽहमस्मि, भगवन् ![५] भवन्तं द्रष्टुमागतः
तन्माऽभिवद, धर्मज्ञ ! महर्षे! सत्यविक्रम ! ॥ ४ ॥

 तन्माऽभिवदेति । प्रागुक्तदिव्ययोगघारणे नित्यप्रतिष्ठितत्वेन नमस्कारादिव्यवहारानभिज्ञत्वात् एवं प्रार्थना ॥ ४ ॥



  1. मलपङ्कजटाघरम्-ड..
  2. तपोधनं-ड.
  3. मीलितनयनत्वेन स्वाभिवादनापरिज्ञानात् भाषणम्-गो
  4. महेश्वर तीर्थ:, गोविन्दराजो वा । तत्र – मलं नाम उद्वर्तनादि संस्काराभावात् शरीरजन्यं, पङ्को नाम बनसञ्चारात् शरीरलग्नमिति भेदः-ती. नित्यनिश्चलतपोयोगेन वा वार्धकेन वा मलपङ्कजटानां घरं - गो.
  5. भद्रं त्वां- ङ.