पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
50
[अरण्यकाण्ड:
सुतीक्ष्णसन्दर्शनम्



 देवलोकं - आदिदेवस्य ब्रह्मणो लोकं अहं नारोहे- नारोहामि । ब्रह्म- मेघानुष्ठानाई ब्रह्मयोगित्वात् अस्यापि ऐच्छिकदेहत्यागसामर्थ्यम् ॥ ७ ॥

[१] चित्रकूट[२] मुपादाय राज्य [३]भ्रष्टोऽसि मे श्रुतः ।

 चित्रकूटमित्यादि । यदा राज्यभ्रष्टः त्वं चित्रकूटं उपादाय- प्राप्य स्थितोऽसि तदाप्रभृति मे - मया श्रुतोऽसि । आन्तराशयस्तु- चित्रकूटं-अतिविचित्रहेतुफलमयसकलसंस्कारावासभूतं आन्तराद्युपग्रहत्रयं उपादाय - स्वीयतया परिगृह यतो राज्यभ्रष्टोऽसि 'ब्रह्मा त्वं राजन्' इत्यादिश्रुतिप्रसिद्ध भूमानन्दब्रह्मराजभावात् प्रच्युतप्रत्यगात्मना स्थितोऽसि, अतो मया त्वदेकत्वेन अशेषवेदान्तैः मत्तत्वतया श्रुतोऽसि इति ॥ ७ ॥

[४]इहोपयातः, काकुत्स्थ ! देवराजः शतक्रतुः ॥ ८ ॥
उपागम्य च मां देवः महादेवः सुरेश्वरः ।
सर्वांल्लोकान् जितानाह मम पुण्येन कर्मणा ॥ ९ ॥
तेषु देवपिंजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ १० ॥

 अथ त्वत्प्रतीक्षया अहमिह स्थित इत्यत्र हेतुमाह - इहोपयात इत्यादि । शरभङ्गाहानानन्तरं इहाप्युपयातः - प्राप्तवानित्यर्थः | किं ततः इत्यतः - उपगम्येत्यादि । पूजावचनेषु न पौनरुक्तचं शङ्कनीयं



  1. राज्यभ्रष्टः सन् चित्रकूटमुपादाय असि - वर्तसे इति मे श्रुतः । यद्वा,
    चित्रकूटप्राप्तयनन्तरमेव राज्यभ्रष्ट थुतोऽसि ।
  2. मनुप्राप्त. - ङ.
  3. भ्रष्टो मया श्रुतः, भ्रंशो मया श्रुत. - ङ.
  4. कस्मात् श्रुत इत्यत आह-इहेति - रा.