पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
22
विराघखननम्



स भग्नबाहुः संविग्नः निपपाताशु [१],राक्षसः ।
धरण्यां मेघसङ्काशः वज्रभिन्न इवाचलः ॥ ६ ॥

 संविग्नः- खिन्नः ॥ ६॥

मुष्टिभिः जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् ।
उद्यम्योद्यम्य चाप्येनं स्थण्डले निष्पिपेषतुः ।। ७ ।।

 सूदयन्तौ - हिंसन्तौ ॥ ७ ॥

स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८ ॥

 न ममारेति । वरमहिम्नेति शेषः ॥ ८ ॥

तं प्रेक्ष्य रामः सुभृशं अवध्यमचलोपमम् ।
भयेष्वभयदः श्रीमान् इदं वचनमब्रवीत् ॥ ९ ॥

 भयेष्विति। भयकालेषु, भीतानामिति शेषः ॥ ९ ॥

तपसा, पुरुषव्याघ्र ! राक्षसोऽयं न शक्यते ।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ।। १० ।।
[२] कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य, लक्ष्मण !
वनेऽस्मिन् सुमहच्यभ्रं खन्यतां रौद्रवर्चसः ।। ११ ।।
इत्युक्ता लक्ष्मणं रामः प्रदरः खन्यतामिति ।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ।। १२ ।।

 निखनावहे—खनुविदारणे, उभयपदी, निखननं कुर्मः ||१२||

तच्छ्रुत्वा राघवेणोक्तं राक्षसः [३].प्रश्रितं वचः ।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् || १३ ||



  1. मूर्च्छितः ङ
  2. ११-१२ श्लोकद्वयं नास्ति
  3. प्रथितं - ङ