पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ सर्ग:]
23
स विराधो निजं रूपं स्मृत्वोवाच निजां कथाम्



 तदिति-स्वखन नमित्यर्थः । प्रश्रितमिति-स्ववरमपि तत्प्रसाध्य- प्राणवियोजनोपाये अकिञ्चित्करं मन्वानत्वात्, शापान्तकालस्य प्राप्तत्वाच्च प्रश्रयप्राप्तिः ।। १३ ।।

[१][२]. हतोऽस्मि, पुरुषव्याघ्र! शक्रतुल्यबलेन वै ।
मया तु पूर्व त्वं मोहात् न ज्ञातः, पुरुषर्षभ ! ॥ १४ ॥

 पूर्वमिति । प्राणान्तव्यापारप्रवृत्तेः पूर्वमित्यर्थः ॥ १४ ॥

कौसल्यासुप्रजाः, राम! तात ! त्वं विदितो मया ।
वैदेही च महाभागा लक्ष्मणश्च [३] महायशाः ॥ १५ ॥

 इदानीं वा कीदृशं त ज्ञानं ? इत्यतः - - कौसल्यत्यादि । कौसल्यायाः सुप्रजाः – कौसल्यासुप्रजाः, बहुव्रीह्यधिकारेऽपि 'नित्य- मसिच् प्रजामेधयोः' इति तत्पुरुषे च छान्दसोऽसिच् । हे राम ! त्वं कौसल्यासुप्रजा इति मया अविदितः ।। १५ ।।

[४] [५]अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् ।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ १६ ॥

 कथमेवं तेऽतीन्द्रियज्ञानशक्तिः ?इत्यत्राह -अभिशापादि- त्यादि । तुम्बुरुर्नाम- प्रसिद्धा गन्धर्वः ।। १६ ।।

प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः ।
यदा दाशरथी रामः त्वां वधिष्यति संयुगे ।। १७ ।।

तदा प्रकृतिमापन्नः भवान् स्वर्गं गमिष्यति ।
अनुपस्थीयमानो मां संक्रुद्धां व्याजहार ह ।। १८ ।।



  1. रामपादस्पर्शेन प्रत्यभिजाननाह --हत इत्यादि-गो. अधिकणठे 'आक्रम्य
    पण्ठे पादेन' इत्युक्तस्वादेवमुक्तम् ।
  2. भक्तोऽस्मि- ङ
  3. महाबल:- ङ.
  4. अपि शापादिति पाठे-- अपिः गयाम्ं ।
  5. अपि-ङ,