पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ सर्गः ]
21
अन्ततां विराधस्य भ्रातरौ तौ भुजद्वयम्


चतुर्थः सर्गः

[ विराधखननम् ]


हियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ ।
उच्चै खरेण चुक्रोश प्रगृह्य [१] सुभुजा भुजौ [२] ॥ १ ॥

 अथ विराघवधः । हियमाणावित्यादि । एवमर्थेऽम्य बहुश: इह प्रयोगः । १ ।।

एष दाशरथी रामः सत्यवान् [३] शीलवान् शुचिः |
रक्षसा [४] रौद्ररूपेण हियते सहलक्ष्मणः || २ ||

 चुक्रोशेत्युक्त क्रोशस्यैव प्रकार: - एष इत्यादि || २ ||

[५]वृकाः भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा ।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते, राक्षसोत्तम ! ॥ ३ ॥

 शार्दूलाः द्वीपिनः इति सचिन्द्रबिन्दुव्याघ्रै| ॥ ३ ॥

तस्याः तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ४ ॥

 वेगं त्वराम् ।। ४ ।।

तस्य रौद्रस्य सौमित्रिः बाहुं सव्यं [६]
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ।। ५ ।।

बाहुं बभञ्जेति । नैतावता प्राणहानिरिति न वरदानविरोधः, अच्छेद्याभेद्यत्वस्य प्राणनाशक्षमावयव विश्लेषविषयतया व्याख्यातत्वाच्च ॥



  1. सुमहाभुजौ--ड. ज
  2. भुजौ प्रगृह्य- उद्यम्य ।
  3. बलवान् - ङ.
  4. घोररूपेण-ङ.
  5. मां पक्षा:-ङ, ज.
  6. नभञ्ज मुष्टि हारेणेति शेषः । अमेद्याच्छेद्यत्ववरस्तु
    शस्त्रकरणकतद्विषय इत्यन्ये-ति. बिभञ्ज ह ।