पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

360 पद्मस्य गर्भः - गर्भप्रदेशः । - इति शेषः ।। २० ।। सीतानू पुरादि: [भरण्यकाण्ड: नीलं जलदं भिस्वेति । सन्मध्य

  • शुलैः सुबिमलैर्दन्तैः प्रभावद्भिरलङ्कृतम् ।

तस्याः 'तद्विमलं वक्तूंं आकाशे रावणाङ्कगम् ॥ २१ ॥ रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् । 2 " सुनासं चारु ताम्रोष्ठं आकाशे हाटकप्रभम् ॥ २२ ॥ रुदिनं, मत्वर्थीयाजन्तः - रोदनवत् । व्यपमृष्टास्रं-अप्रमार्जिता- श्रुकम् ॥ २२ ॥ ++ राक्षसेन समाधूतं तस्याः तद्वदनं शुभम् । शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ २३ ॥ दिवोदितचन्द्रवत् अपगत शोभमित्यर्थः ॥ २३ ॥ सा हेमवर्णा 'नीला मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं ° मणिमिवाश्रिता ।। २४ ।। काञ्चनी -स्वर्णमयी ।। २४ ।। सा ||7 पद्मगौरी हेमाभा रावणं जनकात्मजा । विद्युद्धनमिवाविश्य शुशुभे तप्तभूषणा ।। २५ ।। स्वत्सुनसं-ङ,

  • राक्षसेन्द्रसमाधूर्त-ज.

4

  • ‘ शुक्लै: ' इत्यादिश्लोकत्रयं प्रत्येकं प्रत्येकं वाच्यम् । ‘न शुशुभे' इति

क्रियापदं लोकत्रयसाधारणम्। लोकत्रयस्य एकवाक्यत्वे तु पदानां पौनरुक्तयादिप्रसङ्गः ॥ + राक्षसेन निमित्तन समाधूतं भयकम्पितम्- गो. राक्षसेन्द्र समाधूनं-राक्षसे द्रात् प्राप्तकम्पं - रा. + नीलं गजमाश्रिता काञ्चीव काञ्चनी शुशुभे-ति. || पद्मगौरी- पद्म केसरवत् गोरदेहा-रा. सुनयनं-ज. 5 नीलामं- ए.. सुनेत्रं-खु. चाहदन्तोष्ठं गज-प्र. पीता-अ.