सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
360
[भरण्यकाण्ड:
सीतानू पुरादि:

 पद्मस्य गर्भः - गर्भप्रदेशः । नीलं जलदं भिस्वेति । सन्मध्य इति शेषः ।। २० ।।

 [१] शुलैः सुबिमलैर्दन्तैः प्रभावद्भिरलङ्कृतम् ।
तस्याः [२]तद्विमलं वक्तूंं आकाशे रावणाङ्कगम् ॥ २१ ॥
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् ।
[३] सुनासं [४] चारु ताम्रोष्ठं आकाशे हाटकप्रभम् ॥ २२ ॥

 रुदिनं, मत्वर्थीयाजन्तः - रोदनवत् । व्यपमृष्टास्रं-अप्रमार्जिता- श्रुकम् ॥ २२ ॥

 [५] [६] राक्षसेन समाधूतं तस्याः तद्वदनं शुभम् ।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ २३ ॥

 दिवोदितचन्द्रवत् अपगत शोभमित्यर्थः ॥ २३ ॥

सा हेमवर्णा [७] नीला मैथिली राक्षसाधिपम् ।
शुशुभे काञ्चनी काञ्ची नीलं [८]
[९] मणिमिवाश्रिता ।। २४ ।।

 काञ्चनी -स्वर्णमयी ।। २४ ।।

सा [१०]7 पद्मगौरी हेमाभा रावणं जनकात्मजा ।
विद्युद्धनमिवाविश्य शुशुभे तप्तभूषणा ।। २५ ।।


  1. शुक्लै: ' इत्यादिश्लोकत्रयं प्रत्येकं प्रत्येकं वाच्यम् । ‘न शुशुभे' इति
    क्रियापदं लोकत्रयसाधारणम्। लोकत्रयस्य एकवाक्यत्वे तु पदानां पौनरुक्तयादिप्रसङ्गः ॥
  2. स्वत्सुनसं-ङ,सुनयनं-ज.
  3. सुनेत्रं-खु
  4. चाहदन्तोष्ठं
  5. राक्षसेन निमित्तन समाधूतं भयकम्पितम्- गो. राक्षसेन्द्र समाधूनं-राक्षसे द्रात् प्राप्तकम्पं - रा.
  6. राक्षसेन्द्रसमाधूर्त-ज.
  7. नीलामं- ए..
  8. नीलं गजमाश्रिता काञ्चीव काञ्चनी शुशुभे-ति.
  9. गज-प्र.
  10. पद्मगौरी-पद्म केसरवत् गोरदेहा-रा.