पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 श्रीमद्भगवद्गीला गीतार्थ संग्रहोपेता पश्यादिस्यान् बसून् रुद्रानश्चिनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि पाण्डव ॥ ६ ॥ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥ ७ ॥ न तु मां शक्य से द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ८ ॥ संजय उवाच- एवमुक्त्वा ततो राजन् महायोगीश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ।। ९ ।। अनेकवक्त्रनयनमने का तदर्शनम् । अनेकदिव्यामरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥ दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्य मयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥ दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता । यदि भा: सहशी सा स्याद् मासस्तस्य महात्मनः ॥ १२ ॥ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देषं कृताञ्जलिरभाषत ॥ १४ ॥ अर्जुन उवाच- पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दीप्तान् ॥ १५ ॥