पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः समवन्तरेणाध्यायेन य एवार्थ उक्तस्तमेव प्रत्यक्षीकर्तु- पर्जुनः पृच्छति । यो हह्युपदेशक्रमेणार्थोऽवगतः स एव प्रत्यक्ष- संविबोपारुह्यमाणः स्फुटीभवति । तदर्थमेवेमे उक्तिप्रत्युक्ती अर्जुन उवाच- मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यश्वयोक्तं वचस्तेन मोहोऽयं बिगतो मम ॥ १ ॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरतो मया । त्वत्त कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वरम् । द्रष्टुमिच्छामि ते 2 रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥ मन्यसे यदि तच्छुक्यं मया द्रष्टुमिति प्रभो । योगीश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥ श्रीभगवानुवाच - पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥ 1. S.N,K (n) add स एव चायमुद्यमः after पृच्छति K..... छाम्यहम 2.