पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न्तमोकः । यदृच्छयोपनतं समीपे प्राप्त भोग्यं येभ्यस्ते ।। ८८ ।। । अज्ञातगोत्रा विदितात्मतस्वा लोकस्य दृष्टया जडवद्विभान्तः ॥ चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्या ।। ८८ ॥ चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः । २द्धात्मविद्याक्षपितोरुपापा स्तज्जुष्टमम्भो निगदन्ति तीर्थम् ।। ८९ ।। चस्तव्यमत्र कतिचिद्दिवसानि विद्धं स्त्वद्दर्शनं वितनुते मुदितादि भव्यम् ॥ एष्यद्वियोगचकिता जनतेयमास्ते दुःस्वं गतेऽत्र भवितेति भवत्यसङ्गे ॥ ९० ॥ कोशं क्रेशमलस्य लास्यगृहमप्युद्रंहसामालयं पैशून्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ॥ हिंसामांसलमाश्रिता घनधनाशंसानृशंसा वयं वज्यं दुर्जनस्संगमं करुणया शोध्या यतीन्दो त्वया ॥ ९१ ॥ १९०७ तीर्थान्यपि लोकसंग्रहार्थे चरन्ति न तु स्वशुद्धयर्थम् । यतः शुद्धभावा यतः शुद्धा त्मविद्याक्षपितोरुपापाः । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्यपदेशात्’ इति न्यायात् । तथाचैवंविधैस्तैर्जुष्टं जलं तीर्थं निगदन्ति । तेषां तत्र गमनं लोकसंग्रहा थेमेवेत्यर्थः ॥ ८९ ॥ [ निगदन्ति शास्त्रज्ञा इति शेषः ] ।। ८९ ।। एवं स्तुत्याऽभिमुखीकृत्य प्रार्थयते । हे विद्वन्नत्र कतिचिद्दिवसानि वस्तव्यं यतो भव्यं शुभं योग्यं वा भवद्दर्शनं मुदितादि वितनुते । इयं जनता त्वसङ्गे भवति त्वाय गते सत्यत्र दुःखं भविष्यतीति विचार्याधुनैव भविष्यै दुःखेन चकिताऽऽस्ते। वसन्त तिलका वृत्तम् ॥ ९० ।। अत्र निवासं विधाय वयं त्वया संशोध्या इति बन्दवः साक्रोशमाहुः । छेशमलस्य कोशं पात्रमपिचोत्कटरंहसामतिसाहसानामालयं पैशून्यस्य परदोषसूचकताया निशा