पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ॥ इष्टसंगतिनिवृत्तिकालयो निर्विकारहृदयो भवेन्नरः ।। ९२ ॥ मध्याह्नकाले क्षुधितस्तृषार्त क मेऽन्नदातेति वदनुपैति ॥ यस्तस्य निर्वापयता क्षुधार्ते कस्तस्य पुण्यं वदितुं क्षमेत ॥ ९३ ॥ सायं प्रातर्वह्निकार्य वितन्व न्मज्जंस्तोये दण्डकृष्णाजिनी च ॥ नित्यं वणीं वेदवाक्यान्यधीय न्क्षुद्ध्वा शीर्घ गेहिनो गेहमेति ॥ ९४ ॥ ‘निशान्तत्रिषु शान्ते स्यात्कीबं तु भवनोषसे। : [ सर्गः १४] इति मेदिनी । उत्कटमृषाभाषणस्य विशेषेणाऽऽश्रयं भाषाविशेषाणांमिति वा । हिंसया मांसलं व्यासं त्यतुं योग्यं दुर्जनानां संगमो यत्र तथाभूतं स्फुरदूहमाश्रिता अत एव घनीभूतया धनतृष्णया क्रूराः । घना दृढा धनाशंसा येषामिति भित्रं वा पदम् । घनवनस्याऽऽशंसा येषामिति वा समासः । एवंभूता वयं हे यतीन्दो त्वया करुणया शोध्या इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ९१ ॥ एवमुक्तः पद्मपाद उवाच । परमं ब्रह्मादिकं क्षुद्रं स्तम्बादिकमपि देइिनं दैव मेव संयुनक्ति वियुनाक्त च । तस्मादिष्टसंगतिनिवृत्तिकालयोर्नरो निर्विकारहृदयो भवेत् ॥ ९२ ॥ यत्तु प्रसूनवन्तमित्याद्युक्तं तत्राऽऽह । मध्याह्नकाल इति । उपजातिवृत्तम् ॥ ९३ ॥ [मध्याद्वेति । यत्यादिरित्यार्थिकम् ] ॥ ९३ ॥ किंचाऽऽश्रमत्रयोपजीव्यत्वादपि पुण्यभाग्गृहस्थ इत्याशयेन ब्रह्मचारिणस्तदुप जीवकतामाह । सायमिति । दण्डकृष्णाजिने अस्य स्त इति तथाभूतो वणीं ब्रह्मा च. नित्यं वेदवाक्यानि पठन्क्षुद्ध्वा क्षुधां प्राप्य शीघ्र गेहिनो गेहमेति । शालिनी वत्तम् ॥ ९४ ॥