पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ श्रीमच्छकरदिग्विजयः । यतेर्विरज्यात्मगति: कलत्रं देहं गृहं संपतमेव सौख्यम् । विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४ ॥ मनोरथानां न समाप्तिरिष्यते पुनः पुनः सतनुत मनारथान् ।। दारानभीप्सुर्यतते दिवानिशं तान्प्राप्य तेभ्यस्तनयानभीप्सति ।। ८५ ।। अनाप्नुवन्दुःस्वमसौ मृतीत्रं प्राप्तोति चेष्टेन वियुज्यते पुनः । सवात्मना कामवशस्य दुःस्व तस्माद्विरक्तिः पुरुषेण काय ॥ ८६ ॥ तन्मूलमाहुर्महतां निषेवाम् ।। भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ।। ८७ ।। [ सर्गः १४] किंच यतेः किमपि प्रार्थनीयं नास्तीत्याह । यतेर्विरज्ययाऽऽत्मावगति: सैव भार्या हे महात्मन् ॥ ८४ ॥ [ यतेरिति । विरज्य वैराग्यं संपाद्य याऽऽत्मगतिर्नाम द्वैतमिथ्यात्वानुभवपूर्विकाऽद्वैतत्वेनाऽऽत्मप्राप्तिरित्यर्थ । सैव कलत्रं भार्येति यावत् । ‘कायो देहः छीबपुंसोः' इत्यमरः । संयतमेव संयमनमेव । ‘तत्रितयं संयमः’ इति पातञ्जलसूत्राद्धारणाध्यानसमाध्यभिधसाधनत्रयजन्यं जीवन्मुक्तिविलसनमव सौरूयं भवतीत्यर्थः ] ।। ८४ ।। कामवशास्य तु दुःखमेवेत्याह मनोरथानामितिद्वाभ्याम् । तेभ्यो दारेभ्य ।। ८५ ॥ दारादीननाप्रवन्दुःखमेव सुतीत्रं प्राप्नोति पुनरिटेन च वियुज्यते ॥ ८६ ।। विरक्तिश्च भवद्विवानां महतां सेवया शुद्धचेतसो भवतीत्याह । मनसो विशुद्धिं विरक्तमूलमाहुः । तस्या विशुद्धेमूलं महतां निषेवामाहुस्तेन कारणेन च भवादृशाः परोपकाराय दूरदेशे भूमिटन्ति ॥ ८७ ॥