पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६७
शिवसनार्चनम् ॥

पूर्णचन्द्राभबदनां नीलकुञ्चितमूर्धजाम् । नीलोत्पलदळप्रख्यां चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तचनोतुङ्गस्निग्धपीनपयोधराम् । तनुमध्यां पृथुश्रोणिं वीतसूक्ष्मतरांबराम् । सर्वाभरणसंपन्नां माणिक्यतिलकोज्वलाम् । विचित्रपुष्पसंकीर्णकेशपाशंमनोहराम् ॥ सन्तोनुगुणाकारां किचिह्ज्ञानताननाम् । हेमारविन्दं विकसद्दधानां दक्षिणे करे । दण्डवच्चापरं हस्तं न्यस्यासीनां सहासने । भुक्तिमुक्तिप्रदां देवीं सच्चिदानन्दरूपिणीम् ॥ सदाशिवेश्वरहरश्रीशत्रुहिणमातरम् । समस्तगौरीलक्ष्यादिशक्तिचक्रस्य नायिकाम् । एवं देवंच देवीं च विचिन्त्य द्वयंष्टहायनौ । भक्त्योपचारवर्गेण क्रमेण पारिपूजयेत् । एवं सदाशिवस्य हृदयांबुजे सांबशिवविग्रहाविर्भावभावनापक्षे तस्य सदाशिवहृदयांबुजे अवस्थापनं स्वाभिमुखीकरणम् । इत्यादि सर्वमुपपद्य तेतराम् । शरीरशरीरिणोरभेदप्रतिपत्तिरूप ममृतीकरणं तु सांबशिवविप्र. हाविर्भावपक्ष एवोपपद्यते । स्वाभिमते लिङ्गादाववाहिते सदाशिवविग्रहे पू जार्थमभिव्यक्ति प्रार्थयमानस्य पूजकस्थानुग्रहार्थं शिवाभित्रसच्चिदानन्द एवाचिन्त्याङ्गततदीयशक्तिमहिम्नाकरकमौक्तिकाद्याकारेण जलबिन्दुरिव सकलावयवसंपूर्णसांबशिवविग्रहाकारेणाभिव्यज्यत इति शिवपुराणादिमर्या दा । एवं ि चिदानन्दाकारपरमशिवविग्रहप्रभाधवळितरूपादेव मानावण ष्टत्रिंशकलामयस्यापि सदाशिवविग्रहस्य स्फटिकवर्णवभावनोपपद्यते ।