पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
शिवार्चनाचन्द्रिकायाम्

सर्वैश्वर्येण संपूर्णं नाम्ना सर्वेश्वरस्स्वयम् । सवैर्मुमुक्षुभिर्येय शंभुराकाशमध्यगः ॥ सर्वोपरि कृतावास स्सर्ववासश्च शाश्वतः । पविधावमयस्यास्य सर्वस्य जगतः पतिः ॥ उत्तरोचरताना मुत्तरश्च निरुत्तरः । अनन्तमहिम्नंभोधि रपरिच्छिन्नवैभवः ॥ अशेषविषयामोघशुद्धबुद्धिविङ्भणः । आत्मशक्त्यमृतास्वादप्रमोदभरलालसः ॥ अनन्तानन्दसन्दोहमकरन्दमधुव्रतः । अखण्डजगदण्डानां पिण्डीकरणपंण्डितः ॥ औदार्यवर्यगांभीर्यमाधुर्थमकरालयः । अतुरूस्सर्वभूतानां राजराजो महेश्वरः । अप्राकृतशरीरं त मतिमन्मथरूपिणम् । धृतरीतिघनीभूतसच्चिदानन्दविग्रहम् । सर्वलक्षणसंपन्नं सर्वावयवशोभनम् । रक्तास्यपाषिचरणं कुन्दमन्दस्मिताननम् । शुद्धस्फटिकसङ्काशं फुढपङ्कत्रिलोचनम्। चतुभुजमुदाराङ्गं चारुचन्द्रकलधरम् । वरदाभयहस्तंच मृगटेकवरं हरम् । सर्वोपमानवर्गस्य दवीयांसं विभावयेत् । ततस्संचिन्तयेत्तस्य वामभगे महेश्वरीम् । उफुद्धोत्पलपत्राभविस्तीर्णायतलोचना ।