पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रत्यक्षवधः २९ च्यम् । अन्ये । शून्यमेव तत्वमिति पर्यवस्यति । तदिह आभास साम्यान् सर्वथा न मुक्तिरिति ध्येयम् । (१५) प्रत्यक्षबाधः ।। दृश्यत्वादिहेतुनां बाधश्च दुरुद्धरः। घटोऽस्ति पटोऽस्तीति घट- पटादिसत्त्वस्य सर्वलोकप्रत्यक्षु सिद्धत्वात् । यतु चक्षुराद्यध्यक्षयोग्यं मिथ्यात्वविरोधि सत्त्वं न निर्वक्तु शक्यमिति, तन् प्रतारणमात्रम् । निर्वचनाशक्त्या विषयानपायान् । इक्षुक्षीरगुडादीनां माधुर्य स्यान्तरं महन् । तथाऽपि न तदाख्यातुं सरस्वत्याऽपि शक्यते ।’ इति स्थितेः । अन्यथा वह्निरनुष्णः पदार्थत्वात् , इत्यत्रापि वाधो न स्यात् : उष्णत्वस्य दुर्निरूपत्वेन तद्विपयाध्यक्षसम्भवान् । तद्धि न जानिः । अनभ्युपगमात् । नापि शीतान्यत्वम् । शीतत्वानिरुक्तेः । तस्योष्णान्यत्वेऽन्योन्याश्रयापत्तेश्चेति । यदि च प्रत्यक्षायोग्यं सत्त्वं कथं नाम घटोऽस्तीति सर्वजनसाधारण व्यव हारः । न चायं भ्रमः । मानाभावात् । न च सङ्कपत्रहविषयः तस्य प्रत्यबुलथगोचरत्वान् । अस्तित्वस्य बटादिधर्मत्वेन निबोधं प्रतीतेश्च ! इह घटो नास्तीति बुद्धिप्रतिबन्धकतावच्छेदकविलक्षणधर्मरूपस्य सत्य- स्यावश्यमभ्युपगन्तव्यवाच। स च धर्मः तदधिकरणवृत्त्यत्यन्ताभावा- प्रतियोगिस्वं वा तदधिकरणनिरूपिताधेयत्वं वा तत्तद्वस्तुसम्बन्धित्वं बेति भवताऽपि चाच्यम् । अन्यथा सार्वत्रिकनिरावाधव्यवहारानुपपत्तेः। न चेदं सर्वमननुगतम् । अननुगतेनाप्यनुगत प्रतीतौ जातिमात्रोच्छेद प्रसङ्ग इति शङ्क्यम् । गोत्वादिजात्यनभ्युपगमस्य स्वयमेव भवता पूवमुक्तवान् । अननुगतत्वेऽपि तियोगित्वविषयत्वेदन्त्वादेरेकरू नव्य- बहारदर्शनात् । कथञ्चिदनुगमस्य सर्वत्र शक्यत्वात् । प्रामाणिकस्य गौरवस्यादोषवान् । अन्यथा सर्वशून्यवादप्रसङ्गात् , सदपत्रह्मनुगत- प्रतीतेरुपपादयितुं सर्वथाऽशक्यत्वाच । तथा हि । इदं रूप्यमितिवत्