पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ विशिष्टाद्वैतसिद्धिः अथमः तुच्छोभयवैलक्षण्यमस्तु, मिथ्यात्वं मा भूदित्युक्ते प्रतिवचनस्याशक्य त्वात् । एवं वस्तुतत्त्वे स्थिते प्रत्यनुमानस्य यथाऽऽभासत्वं तथैव भवदनुमानस्यापि । तत्र यथा भवन्तं प्रति योगाचारमतप्रवेशापति रिति प्रतिकूलतकेंद्भिावनमनुचितम् । इष्टत्वात् । तथव शून्यवादापत्ति रिति प्रतिवादिनं प्रत्युद्भावनमप्यनुचितम् । तत्प्रसजनाभिप्रायेणैव तेन प्रत्यनुमनप्रयोगादिति । यच्च “ब्रह्मणि मिथ्यात्वे साध्ये सोपाधिके सिद्धसाधनम् । निरुपा- धिके व्यवहारविषयस्वरूपो हेतुरसिद्धः। वेदान्तजन्यवृत्तिविषयत्वा- भ्युपगमेऽप्यप्रयोजकः । “ इति तदप्यसुन्दरम् । सिद्धसाधनत्वे ब्रह्म मिथ्येति निरावाधत्र्यचहाराभ्युपगमप्रसङ्गात् । ननु सोपाधिकस्य हि मिथ्यात्वमिष्यते, न निरुपाधिकरस्य । निर्विशेषणं तु ब्रह्मपदमिह प्रयुक्तम् । तत् कथमयं व्यवहारो घटेतेति चेन्न । सच्चिदानन्दं ब्रह्म. सत्यं ज्ञानमनन्तं ब्रहृत्यपि व्यवहारस्यानुपपत्तिप्रसङ्गात् । निपाधि कस्यैव एवम्भूतत्वात् । तस्य च विशेषणस्यात्रानुपादानात् । “निरुपा- धिके’ इति भवतैव व्यवह्रियमाणत्वेन हेतोस्तत्र सिद्धत्वाच्च । न च वक्रोऽर्थः कश्चिदिह वर्णनीयः । तं विनैव वक्तृश्रोत्रोरर्थसम्प्रति पत्तः । न चाप्रयोजकत्वम् । यदि ब्रह्मणो मिथ्यात्वं विनैव व्यवहर विषयत्वं स्यात् तर्हि प्रपञ्चस्यापि तथैव स्यादित्यापत्तेः सत्त्वान् । यच्च ब्रह्म मिथ्या असद्विलक्षणत्वात्इत्यस्य दूपणाय यत्किञ्चिदुच्यते तत् बालव्यामोहनमात्रम् । वस्तुतो ब्रह्मणः प्रपञ्चस्य शुक्तिरूप्यादेश्च असद्विलक्षणत्वमस्ति न वा। आधे साधिष्ठमेवेदमनुमानम् । न च ब्रह्मघ्यावृत्तमसद्विलक्षणत्वं शिक्ष्यमाणं युज्यते । ब्रह्म असद्विलक्षणं न भवतीति व्यवहारस्य सामञ्जस्यप्रसङ्गात् । सोपाख्यत्वप्रतीत्यर्कत्वादिरूपं हि तदत्र निर्वा