पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wiss. सं॰ ६] 1.Ma 1:16:322 11 11 विक्रमाङ्कदेवचरितम् बाई, जि.

सह विभवभरेण तत्र पुत्रों गुणनिधये नृपनन्दनाथ
कथमपि परिणेतुरभ्यनुज्ञामथ समवाप्य चचाल चोलराजः ॥ १ ॥
द्रविडनरपतेरदत्त वित्तं निरवधि कुन्तलनाथनन्दनोपि ।
यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥ २ ॥
मुदितमनसि जातमानसिद्धौ गतवति तत्र गुणैकपक्षपाती ।
प्रतिपदमुकण्ठतः क्षितीन्दुः कुसुममृदूनि मनांसि निर्मलानाम् ॥ ३ ॥
द्रविडपतिकथाद्भुतक्षणेषु क्षितिपतिसूनुरसौ गुणामुरागी |
पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयांचकार ॥ ४ ॥
किमिति न गमनान्निवारितोसौ परिचयमेष्यति चक्षुषोः पुनः किम् ।
इति सुजनशिखामणिः कुमारः किमपि चिरं परिचिन्तयांचकार || ५||
द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसंपदास्पदं सः ।
प्रणायेषु शुभचेतसां प्रसादः प्रसरति संततिमप्यनुग्रहीतुम् ॥ ६ ॥
रणरमसविलास कौतुकेन स्थितिमथ विश्रद्सौ यशोवतंसाम् ।
विधिहतक दुराग्रहाद काण्डे गतमशृणोद्रविडेन्द्रमिन्द्रधाम्नि ॥ ७ ॥
मृदुहृदयतया गुणानुरागादतिमहतः प्रणयाच राजपुत्रः ।
हिमकरकरकाण्डपाण्डुगण्डस्थलगलदश्रुजलश्चिरं
ललाप || ८ ||
द्रविडविषयराज्यविठवेन श्रवणपथातिथिना ततः सखेदः ।
अभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुञ्चचाल ॥ ९ ॥
करटिशतविकीर्णकर्णतालव्यजनसमीरणशीतलीकृतानि ।
अथ धरणिभुजां पिबन्यशांसि क्षितिपतिरादिपुरीमवाप काञ्चीम् ॥ १०
समजाने कलमेखलाकला पध्वनि जय डिण्डिम सज्ज पुष्पचापम् ।
अथ चटुलकटाक्षबाणवर्षप्रगुणममुष्य पुरः पुरंधचक्रम् ॥ ११ ॥

VI. 10. कर्ण °om. Ms. www