पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आy: ४८ विक्रमाङ्कन्देवचरितम् ।

अधरहसित किंशुका शुकाय क्रमुकदलं वदनस्थमर्पयन्ती |
क्षितिपतितनयेत्र कापि नेत्रप्रणयिनि चुम्बनंचातुरीमुवाच ॥ १२ ॥
गृहशिखर मगम्यमध्यरोह द्रुतमषधीरितपात भोतिरन्या |
॥ १७ ॥
मरणमपि तृणं समर्थयन्ते मनसिज पौरुषवासितास्तरुण्यः ॥ १३ ॥
कलकलमपरा मुधा विधाय क्षितितिलकान्नयनान्तमाससाद |
अवतरति मृगीदृशां तृतीयं मनासेजचक्षुरुपायदर्शनेषु ॥ १४ ॥
हृदि विहितपदेन शुद्धभासा कृतमघरं धरणीन्द्रसूनुनेव ।
निपतितमवधीर्य हारमन्या हरिणविलोलावेलोचना जगाम ॥ १५ ॥
उरसि मनसिजावत सलोलासमुचित कोमलपल्लवानुकाराम् ।
नखलिपिमपरा प्रकाशयन्ती सुरतत्रिमसहत्वमाचचक्षे ॥ १६ ॥
अभजत मणिकुण्डलं परस्याः श्रवणपरिच्युत
मंसदेशमेत्य |
गलविगलितपुष्पबाणचक्रश्रियमसितोत्पलचारुलोचनायाः
परिकलित चुलुक्यराजपुत्रप्रथमविलोकन
कौतुकत्वराणाम् ।
इति नगरकुरङ्गलोचनानामभवदनङ्गविलोभनो विलासः ॥ १८ ॥
नरपतितनयः कयापि कोपस्फुरितरदच्छदलेखया लुलोके ।
प्रकटितपटुपञ्चबाणलीला कलकिलिकिञ्चितमीक्षणाञ्चलेन ॥१९॥
कनकसदनवेदिकान्तरालप्रतिपदः क्षितिपालनन्दनोसौ ।
सुरशिखरितटीविटङ्कमध्यप्रणयिनमुष्णकरं निराचकार ॥ २० ॥
कतिचिदपि दिनानि तत्र नीत्वा परिसरभूमिषु भूरिभिर्विल।सैः ।
चरणतलनिविष्टदुष्टवर्गः पुरमवलोकयातेस्म गाङ्गकुण्डम् ॥ २१ ॥
द्रविडनरपतिप्रतापभीत्या किमाऐ गते पयसां निधौ परस्तात् ।
यद विहित विवाहमङ्गलाया बहिरिष निर्गतमादिवाम लक्ष्म्याः ॥ २२ ॥
गगनमुपगतेन शोभते यन्त्रिरुपमकाञ्चनवप्रमण्डलेन ।

VI. 20. tom. Ms. 9