पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ५ ] विक्रम ङ्कदेवचरिदम् ।

अन्धकारपटलच्छलेन यद्धपूरितमिषाभवन्नभः ॥ ६९ ॥
जैत्रया जिघृतना खुरक्षतक्षोणिधूलिपटलीभिरब्वसु ।
तडलस्य सुभगत्वमागमत्पूरितानि विषमस्थलान्यपि ॥ ७० ॥
चेतसोषि दधतीरलङ्घयतां लङ्घन्यद्भिरषटस्थलीभुवः ।
तस्य वाजिभिरजायत क्षितिर्भ्रान्तवातहरिणेव सर्वतः ॥ ७९ ॥
सेन सैन्यधनुषां शिलीमुखज्यालसाप्रणयिनां विभूतिभिः ।
तंत्रतत्र विजयश्रियः कृते केलिकाननमिष व्यधीयत ॥ ७२ ॥
अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरंगिणीम् ।
कार्यजातमसमाप्य धीमतां निद्रया परिचयोषि कीदृशः ॥ ७३ ॥
रञ्जितः परिजनोस्य शीतलस्वच्छया सपदि तुङ्गभद्रया |
आगताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥ ७४ ॥
दक्षिणार्णव सटा दुपागतैस्तद्द्वजैः पिशुनतां गतैरिव ।
शीघ्रमक्रियतं मध्यवर्तिभिः सा प्रतीतिरब्धिबलमा ॥ ७५ ॥
सिन्धुतीरनिलयानुरोध तस्तत्तथा बलमवाप दीर्घताम् |
अन्तरक्षपितरात्रिभिर्जनैः प्राप्यतेस्म नृपमन्दिरं यथा ॥ ७६ ॥
चोलकेलिसलिलावगाइन प्राप्त भूरिघनसारपाण्डुरा |
सा हिमाचलबिटङ्क निर्गता जाइबीच तटिनी व्यराजत ॥ ७७ ॥
तत्र दक्षिणतटे कृतस्थितिः कुन्तलेन्दुरवलोक्य तद्दलम् ।
बाहुमाहव सहस्त्रदीक्षितं वन्दते च परिचुम्बतिस्म च || ७८ ॥
द्राविडोपि नृपतिः कुतूहलाद्वीक्ष्य तत्कटकमुत्कटद्विपम् ।
राज्यमुद्धृतमनर्थपङ्कतः कन्यकावितरणादमन्यत ॥ ७९ ॥
प्रेषितैरथ तयोः परस्परं प्रेग्णि योग्यपुरुषैः प्रयञ्चिते।

0₂ V. 69.. शु . Ms. V. 70. कुरक्षत° Ms. - V. 73वे Ms. -- V. 78. Ms. om. first च.