पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । ४४ [स°

तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥ ५८ ॥
नाद्य यावदवलोकिता जनैः कापि तस्य वचसामसत्यता |
मादृशां शुभविपर्ययाद्यदि व्यक्तिमेष्यति मवादृशेषु सा ॥ ५९ ॥
एवमादिभिरनेन बोधितः कोविदेन वचनैः पुनः पुनः ।
ज्ञातचोलहृदयः स्वयं च स प्राङ्गिवेदितमगानदीतटम् ॥ ६ ० ॥
चोलभूमिपतिरप्यनन्तरं निर्जगाम नगरात्कृतोत्सवः |
पुष्पसायकपताकया तया कन्यया सह सहासवक्त्रया ॥ ६१ ॥
संधिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना ।
शान्तसाध्वसमहारुजः प्रजाः स्वेषु धामसु बबन्धुरादरम् ॥ ६२ ॥
दिग्गजश्रवणभङ्गकारिंभिर्दुन्दुभिध्वनिमिरस्य
अभ्रमभ्रमुभुजंगडिण्डिमध्वाननिर्भर मिव व्यराजत ॥ ६३ ॥
सर्वतः श्रवणभैरवन्दुभिप्रतिरयापदेशतः |
भैरवैः ।
.
सम्वनं द्विरदवृन्दवट्टनादस्फुटन्निव दिगन्तभित्तयः ॥ ६ ४ ॥
कर्णतालपवनोभिशीतलैः सिञ्चतिस्म करशीकराम्बुभिः ।
दिग्गजानिव भयेन मूर्छितांस्तस्य वारणपरंपरा पुरः || ६५ ॥
तत्र भूरजसि दूरमुद्रते यन्न दिग्बममघत्त भास्करः ।
हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥ ६६ ॥
क्षोणिरेणुमिषतः सदाव्यगः स्यन्दने रचयतिस्म भास्करः ।
पश्चिमाद्रिविषमस्थलीमुवां पूरणार्थमिव संग्रहं मृदः ॥ ६ ७ ॥
नन्दनमनिकुञ्ज पुञ्जितैः पांसुभिः कुसुमधूलिवासितैः ।
चौर्यकेलिशयनोपयोगतस्तुष्यतिस्म सुरपांसुलाजनः ॥ ६८ ॥
वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः ।

V. 66. ° परंपरा: Ms. – V. 66. पति ● Ms. - V. 68. पशुभिः पशुला ० Ms.