पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ५] विक्रमाङ्कदेवचरितम् । ४३

त्वत्करप्रणयिनीं विधाय स प्राप्तुमिच्छति समस्तवन्द्यताम् ॥ ४६ ॥
तेन तस्य वचनेन चारूणा प्राप कुन्तलपतिः प्रसन्नताम् |
तीव्ररोषविषवेगशान्तये भेषजं विनय एव तादृशाम् ॥ १७ ॥
कीदृशी शशिमुखी भवेदिति स्पृश्यतस्म हृदये स चिन्तया ।
कामुकेषु मिषमात्रमीक्षते नित्यकुण्डलितकार्मुकः स्मरः ॥ ४८ ॥
अब्रवीच मनसः प्रसन्नतां दन्तकान्तिमिरुदीरयन्निव |
ओष्ठपृष्ठळुठितस्मिताञ्चलः कुन्तलोनयनपूर्णचन्द्रमाः ॥ ४९ ॥
ईदृशीं सुजनतामजानता कार्मुकेण मुखरत्वमत्र मे ।
यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते ॥ ५० ॥
दोषजातमवधीर्य मानते धारयन्ति गुणमेव सज्जनाः |
क्षारभावमपनीय गृगते वारिधेः सलिलमेव वारिदाः ॥ ५१ ॥
दिग्जयव्यसनिना पुनः पुनस्तस्य किं प्रियमनुष्ठितं मया ।
रज्यते मयि दृढं तथाप्यसौ बन्न कञ्चरितमुन्मतारमनाम् ॥ ५२ ॥
तस्य भूरे गुणरत्नशालिनः स्नेहपूतहृदयस्य वाञ्छितम् ।
पारयामि न विधासुमन्यथा यत्स्थितं मनसि तद्विधीयताम् ॥ ५३ ॥
दर्शयन्तममृतद्वबोपमां वाचमिन्दुकरनिर्मलामिति ।
विक्रमाङ्कमपयातसाध्वसः साधुरेनमथ स व्यजिज्ञषत् ॥ ५४ ॥
किं सवान्यदुचितं वदान्यता यत्समादिशति तत्त्वया कृतम् ।
प्रार्थितार्थपरिपन्थितामगात्कञ्जुलुक्यकुलपार्थिवोर्थिनाम् ॥ ५५ ॥
वेत्सि मे पतिमञ्चकं यदि स्वच्छतां स्पृशति चात्र ते मनः |
तन्निवृत्य कुरु भइया मुद्रिते पदमुपान्तवर्त्मनि ॥ ५६ ॥
कैञ्चिदेव सततप्रयाण कैस्तत्र शुद्धहृदयः करिष्यति ।
स त्वया परिचयं प्रतापिना पर्वणीन्दुरिव तिग्मरश्मिना ॥ ५७ ॥
गाहतेत्र घृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् ।