पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

dict [स° विक्रमाङ्कदेवचरितम् |

व्यक्तिमेति रिपुमन्दिरेषु यः क्रन्दितध्वनिभिरणचक्षुषाम् ॥ ३४ ॥
निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि ।
कश्मलैः परिहता इवालिभिर्यद्भजन्ति ककुभः प्रसन्नताम् ॥ ३५ ॥
त्यादृशेन विजिगीषणा विना क्षत्रमक्षममसाध्यसाधने ।
कावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥ २६ ॥
अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यत्त्वया |
वज्रलेपघटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका || ३७ ||
किं करोषि निजयाथवा भुवा त्वं समस्तवसुधातलेश्वरः ।
केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥ ३८ ॥
याति पुण्यफलपात्रतामसौ यां भुवं निवससे महाभट |
साकुपार्थिव दर्शनोज्झिता त्वां पतिं हि लभते गुणोज्ज्वलम् ॥ ३९॥
त्वद्भिया गिरगुहाश्रये स्थिताः साहसाङ्गलितत्रपा नृपाः |
ज्यारय प्रतिरवेण तानपि त्वद्धनुः समरसीम्नि बाधते ॥ ४० ॥
उत्प्रतापदहनं मुखं वहन्नाहवे त्वदसिरैन्द्रजालिकः ॥
दिव्यमस्तकसमागमं द्विषां लूनमर्त्यशिरसां करोति यत् ॥ ४१ ॥
भाग्यभूमिमपि भारतादिषु त्वादृशं न शृणुमः प्रतापिनम् ।
दर्शनेन विजयश्रियं रणेष्वन्धसङ्गविमुखीं करोति यः ॥ ४२ ॥
कि किरीटमणयः क्षमाभुजां लोहकर्षकदृषत्सहोदराः ।
आनयन्ति यदुपान्तवमाने त्वत्कृपाण मतिदूरवर्तिनम् ॥ ४३ ॥
चोलभूमिपतिरुज्ज्वलैर्गुणैः किं न वक्ति भवतानुरञ्जितः ।
पश्यतस्तृणसमां तव श्रियं श्रीप्रदानकथनेन लज्जते ॥ ४४ ॥
अन्य पौरुषगुणेष्वापे श्रुतिं प्राप्तवत्सु घनगर्जितेष्विव ।
राजहंसवानतेष मानसान्त्रास्य निःसरति तावकी स्तुतिः ॥ ४५ ॥
कन्यकां कुलविभूषणं गुणैर त्रिभुवनातिश। यिनीम् ।