पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

नैष दुर्मतिरिमं सहिष्यते राज्यकण्टकविशोधनोद्यतः ।
अग्रजादिति विशङ्कय संकट सिंहदेवमनुजं निनाय सः ॥ १ ॥
गुप्तभूषणरवेव सर्वतस्तूर्यमङ्गल निनादशान्तितः ।
श्रीरलक्ष्यत विलक्षचेतसा तस्य पृष्ठचलितेष भूभुजा ॥ २ ॥
अङ्कवर्तिनमशङ्कमाः कथं हन्तुमेनमुपरुद्धवानिति ।
तल्पनिर्लंटनशीर्णचन्दनः पर्यतप्यत विभावरीषु सः ॥ ३ ॥
तस्य मनमवनीपतेर्मनस्त्रासपडपटले पटीयसि ।
मूरिसंख्यभरकर्षणक्षमैरप्यकृष्यत
न मत्तदन्तिभिः ॥ ४ ॥
सव्यसर्जयदय कथन्मनाः पुष्कलं बलममुख्य पृष्ठतः ।
किन संभवति चर्मचक्षुषां कर्मलुब्धमन सामसात्त्रिकम् ॥ ५ ॥
स° ५ ]
प्राप्तमप्यनयपङ्कशङ्कितस्तद्दलं न सहसा जघान सः ।
अप्रतवर्षभुजवीर्यशालिनः संकटेप्यगहनास्तथाविधाः ॥ ६ ॥
अन्तकः प्रतिमटक्षमाभृतां नियमहणनोद्यतं ततः ।
तन्मदाद्वरदपाद चूर्णितं सैन्यमेककवलं चकार सः ॥ ७ ॥
किं बहुमलपितैः पुनःपुनः प्रत्यनीकपृतनाः समागताः ।
कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ॥ ८ ॥
राजहंसामेव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः ।
तत्र तामरसपत्चलोचनश्चित्रमभ्युदयमाससाद सः ॥ ९ ॥
मन्युषङ्ककलषं समुद्वहन्त्र हृदुश्चरित चिन्तनान्मनः |
सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गमद्रया ॥ १० ॥
तत्करोन्द्रनिहावगाह नैर्वाहिनीपतिपथेन सागमत् ।
दन्तिदानजलनिम्नगाः पुनर्लेभिरे प्रणयमापगापतेः ॥ ११ ॥

V. 2. विलथ्य ° Ms. —V. 3. कथहमेनमु° Ms. V. 7 °जूर्णितं Ms. V. 9. तल तत्रातपललों Ms.