पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ विक्रमाङ्कदेवचरितम् | [स° ४

राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥ ११४ ॥
अचिन्तयच्च किं कार्यं विपर्यस्तधियामुना |
अकोर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥ ११५ ॥
त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः |
तदितः साधयाम्वेष दक्षिणाम्बुधिसंमुखः || ११६
मया निपीडयमानास्ते निविडं द्रविडादयः ।
आर्यं विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥ ११७ ॥
इति स मनसा निश्चित्यार्थं चुलुक्यशिखामणिः
श्रवण सरणिं भिन्दन्भेरीरवेण विनिर्ययौ ।
अपि च कुपितो क्ष्माभृत्सेनाग जेषु निजेषुभिः
कतिषु विदधे धैर्यध्वंसं न साहसलाञ्छनः ॥ ११८ ॥
प्रत्यक्ता मधुनेष काननमही मौर्वीय चापोज्झिता
शुक्ति मौक्तिक व जितेव कविता माधुर्यहोनेव च ।
तेनैकेन निराकृता न शुशुभे चालुक्यराज्यस्थितिः
सामर्थ्य शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥ ११९ ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल्लदेव-
विद्यापतिकाश्मीरकमहाबल्हणविरचिते चतुर्थः स
र्गः ॥ ४ ॥

R