पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । विलोकयंस्तद्विमदरसमांसलस्पृहः । [स° ५ १०

वारणः प्रतिगजं
आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥ १२ ॥
षद्द्व्वनिमिराकुलीकृतः पातुमैच्छदकं न कुञ्जरः ।
तान्प्रविश्य पयसि न्यपीडयद्दषणं हि मुखरत्वमर्थिनाम् ॥ १३ ॥
अत्यजत्प्रतिगजं मतङ्गजः पार्श्वसंगत करेणुलोमतः ।
यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥ १४ ॥
रुद्रवर्मसु गजेषु वाजिनः प्रापुरम्भासे निमज्जनं चिरात् ।
लब्धती रतरुकण्टकैः पुनर्नेक्षितापि तटिनी क्रमेलकैः ॥ १५ ॥
अस्मरविरददानवारिणा सेन वारिनिधिराविलीकृतः ।
हन्त संततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः ॥ १६ ॥
स्नानसक्त परिवारसुन्दरीबृन्दमध्यमवधीरिताङ्कुशः 1
यज्जगाम मदलङ्गितः करी भाग्यसंपदुपार स्थितस्य सा ॥ १७ ॥
तां विधाय कतिचिद्दिनानि स प्रेयसीवसृणपङ्किलां नदीम् ।
चोल संमुख मगाहताहवप्राप्तिदुर्ललित बाहुराग्रहम् ॥ १८ ॥
केलिकाननशकुन्तकूजितच्छा द्यमान गलकन्दलस्वनाः ।
प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥ १९ ॥
यत्र तिष्ठति विरोधमुद्रहन्दाहतः प्रभृति तेजसा संह |
मेचकक मुक्काननावलीमीलितोष्णकिरणाचिषि स्मरः ॥ २० ॥
यत्र मारतावधूतकेतकवातधूलिधवलासु भूमिषु |
कामिनीशरणमाश्रित स्मरे भगवन्हिरिव भस्मसादभूत् ॥ २१ ॥
नालिकेरफलखण्डताण्डवक्षुण्णतत्कुहरवारिवीचयः ।
यत्र यान्ति मरुतः स्मरास्त्रतां धूतपक्ककदलीसमृद्धयः ॥ २२ ॥

v. 16. तेन वारिनिधि°om. Ms., the letters having been rubbed out. – V. 17. °मवत्रीत कुश: Ms. - V. 18. चांड ° - भवगाहित Ms.