पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° २] विक्रमाङ्कदेवचरितम् ।

अवाप्य संपादितमांसलोत्सवः परामगानिर्वृतिमीश्वरः क्षितेः ॥५७४
स सोमव नेत्रचकोरपारणां चकार गोत्रस्य यदुज्ज्वलाननः ।
यथोचित सोम इति क्षमापतेस्ततः प्रसन्नादमिधानमाप्तवान् ॥ ५८ ॥
अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्त्रं गिरमुइतां दिवः |
द्वितीयगर्मार्थमभूत्स निर्भर समुत्सुको मध्यमलोकनायकः ॥ ५९ ॥
स्थितस्य गर्ने प्रभयेव कस्यचिदिलिप्यमानां स्फटिकामलत्विषः ।
स गण्डपालों विशदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ||६||
- स हेमवृष्टिं महतोमकारयच्चकार चित्राण्युपयाचितानि च ।
हरप्रसादांचितसूनुलालसञ्चकार किंकि न नरेन्द्रचन्द्रमाः ॥ ६१ ॥
उवाह धौतां क्षितिपालवलमा सुधाप्रवाहरिव देहकन्दलीम् ।
विषादपङ्कक्षयतः क्षमापतेर्निरन्तरं तु प्रससाद मानसेम् ॥ ६२ ॥
निपीडय चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा ।
यदुत्पलश्यामलमाननं तयोः सलाञ्छनच्छायमिव ध्यराजत ॥ ६३ ॥
नरेन्द्रकान्ताकुचर्हेमकुम्भयोः सुधारसं क्षीरमिषेण बिवतोः ।
हिमोपचारार्पित माईचन्दनं श्रियं दधे गालनशुभ्रवाससः ॥ ६४ ॥
नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः ।
विलासहा रोज्ज्वलमौक्ति कच्छलात्स मल्लिकावासमिव व्यधीयत ||६५||
मृगीदृशः श्यामलचूचुकच्छलात्कुचद्वये भूपसुतोपयोगिनि ।
प्रभावसंक्रान्तरसायनौषधीदलहूयं नीलमिष व्यराजत ॥ ६६ ॥
निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्र्यमसौ सहिष्यते ।
न येन मध्यस्थमपि व्यषह्यत स्थितेन गर्ने नरनाथयोषितः ।। ६ ७ ।।
बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोपि वर्तते ।
इतीघ गर्भः क्षितियालयोषितः शशंस भजनुदरे वलिस्थितिम् ||६ ८ ||

.II. 62. देहकंदली Ms.