पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

नृपं कठोरव्रतचर्यया कृशं समाहिता सा नरनाथसुन्दरी |
निशातशाणोल्लिखितं समन्वगात्यमेव माणिक्यमतीष निर्मला ॥ ४६
मृगाङ्क चूडस्य किरीटनिम्नगातरंगवातैरिव वारितश्रमा |
उपाचरत्सम्यगसो नराधियं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥ ४७ ॥
तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य श्वेतसः ।
सदद्विकन्यादयितस्य पूजने जितेन्द्रियः कल्पयतिस्म पार्थिवः ॥४८
इति क्षितीन्द्रश्चिरमिन्दुशेखरप्रसादनाय व्रतमुग्रमाश्रितः ।
कदाचिदाकर्णयतिस्म भारत प्रभातपूजासमये नमश्चरोम् ॥ ४९
अलं चुलुक्याक्षतिपालमण्डन श्रमेण विश्राम्यत कर्कशं तपः ।
कमध्यपूर्वं त्वाये पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥ ५०
इयं त्वदीया दयिता भविष्यति क्षितीन्द्रपुत्रत्रितयस्य भाजनम् ।
चुलुक्यवंशः शुचितां यदर्जितैर्यशोभिरायास्यात मौक्तिकैरिव ॥५१
निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः ।
दिलीप मानवातमुखादि पार्थिव प्रथामतिक्रम्य विशेष मेष्यति ॥ ५२ ।
सुतद्वयं ते निजकर्मसंभवं मम प्रसादात्तनयस्तु मध्यमः ।
पथोनिधेः पारगतामापे श्रियं स दोर्बलाग्राम इवाहारष्यति ॥ ५३
गिरं निपीय श्रुतिशुक्तिमागतां सुधामिय व्योमपयोनिधोरेति ।
उदासमं ततः स शैत्यसंपर्कमिव न्यवेदयत् ॥ ५४
उदञ्चदानन्दजलपुतेक्षणस्ततः प्रमोदालसलोचनोत्पलाम् ।
स वल्लभामन्यपुरंधदुर्लभैर्गुणैरुपेतां गुणधानतोषयत् ॥ ५५ ॥
शनैर्षिधाय व्रतपारणाविधिं धनैः कृतार्थी कृतविप्रमण्डलः ।
अखण्ड सौभाग्यावेलासया पुनस्तया समं राज्यमुखेष्वरज्यत ॥ ५६
क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसंनिभः |

II. 49. शेषर Ms. -II. 50. कर्केसं Ms.