पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° २.] विक्रमाङ्कदेवचरितम् |

ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥ ३४ ॥
प्रतापशौर्यादिगुणैरलंकृतोप्युपैति तावन्न कृतार्थतां नृपः ।
सुतेन दोर्विक्रमलब्धकीर्तिना न यावदारोहति पुत्रिणां धुरे ॥ ३५ ॥
निशम्य देवस्य नितान्तदुःखिता कथामिति श्रोत्रपथप्रमाथिनीम् ।
जगाद किंचिन्त्र नरेन्द्रसुन्दरी परं निशश्वास तरंगितालका ॥३६॥
स धोरमुर्वीन्दुरधीरलोचनामथाङ्कमारोप्य कृपार्द्रमानसः ।
हरन्निवातङ्ककलङ्कमुज्ज्वलद्विजावली कान्तिजलैरखोचत ॥ ३७ ॥
अलं विषादेन करोषि किं मुर्ख कषोष्णनिःश्वासविधूसराधरम् ।
अभीष्टवस्तुप्रतिबन्धिनामहं कृताग्रहो निग्रहणाय कर्मणाम् ॥ ३८ ॥
अधीतवेदोस्मि कृतश्रुतागमः श्रमोस्ति भूयानितिहासवसु ।
गुरुष्ववज्ञा विमुख सदा मनस्तदभ्युपायोत्र मया न दुर्लभः ॥ ३९ ॥
किमस्ति दुष्प्रापमसौ निषेव्यते कुलप्रभुर्बालमृगाङ्कशेखरः ।
करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्विनः ॥ ४० ॥
तदेष तावत्सपसे सह स्त्रया प्रभूतभावः प्रयते यतेन्द्रियः ।
विभावरीवल्लमखण्डमण्डनः स यावदायाति दयां जगद्गुरुः ॥ ४१ ॥
विधाय शान्त्यै कलषस्य कर्मणस्तदेष सर्वेन्द्रनं तपः |
नयामि भक्त्या झटिति प्रसन्नतामखण्डया खण्डशशाङ्कशेखरम्॥४२॥
तथेति देव्या कृत संमतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु |
अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ॥ ४३ ॥
तपः स्वहस्ताकृतपुष्पपूजितस्त्रिलोचनः स्थण्डिलवासधूसरः ।
तथा स राजर्षिरसाधयद्यथा महर्षयोस्मादपकर्षमाययुः ॥ ४४ ॥
स सौकुमार्यैकधनोपि सोढवांस्तपोध
नैर्दुष्प्रसहं परिश्रमम् ।
रराज तीव्रे तपास स्थितो नृपः शशीष ताराद्युतिमण्डलातिथिः ॥ ४५ ॥

II. 34. क्षणं Ms. — II. 45. तारा om. Ms. ०