पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{, THESIS OFFEE"#03959 विक्रमाङ्कन्देवचरितम् ।

आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपदमम्बुजानाम् ॥ ३२ ॥
ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्धं कथां वर्धयतः कदाचित् ।
त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसंध्यासमयो बभूव ॥ ३३ ॥
मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः |
अन्योन्यविश्लेषणयन्त्रसूत्रभ्रान्त्येव चञ्चस्थितमाचकर्षं ॥ ३४ ॥
आरक्तमर्थार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन |
बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥ ३५ ॥
सुधाकरं वार्धकतः क्षपायाः संप्रेक्ष्य मूर्धानमिवानमन्तम् ।
तद्विलवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजषकमासीत् ॥ ३६ ॥
ज्ञात्वा विधाञ्जुलुकात्मसूर्ति तेजस्विनोन्यस्य समस्तजेतुः ।
प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥ ३७॥
जगाम याङ्गेषु रथाङ्गनाम्नां परस्परादर्शनलेपनत्वम् ।
सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणाफलके ममज्ज ॥ ३८ ॥
संध्यासमाधी भगवान्स्थतोथ शक्रेण बद्धाञ्जलिना प्रणम्य |
विज्ञापितः शेखर पारिजातद्विरेफनादाद्वेगुणैर्वचोभिः ॥ ३९ ॥
आस्ते यदैरावणवारणस्य मदाम्बुसङ्गन्मिलितालिमाला |
साम्राज्यलक्ष्मीजपतोरणामे दन्तव्ये वन्दनमालिकेव ॥ ४० ॥
यदातपत्रं मम नेत्रपद्मसहस्रलोलालि कदम्बनीलम् ।
कुरङ्गनामीतिलकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥ ४९ ॥
यन्नन्दने कल्पमहीरुहाणां छायासु विश्रम्य रतिश्रमेण ।
गायन्ति मे शौर्यरसोर्जितानि गीर्वाणसादृशो यशांसि ॥ ४२ ॥
किंवा बहूतः पुरुहूत एष पात्रं महिनो यदनशस्य 1
स्वामिन्स
सर्वोपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः ॥ ४३ ॥

४ I. 34. समुत्सुकाश्चा° Ms.----I. 43. बहूते: Ms.