पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १]
विक्रमाङ्कदेवचरितम् ।

न सारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥ २१ ॥
रसव्यनेरध्यान ये चरन्ति संक्रान्तचक्रोक्तिरहस्यमुद्राः |
तेस्मत्प्रबन्धानवधारयन्त कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ २२ ॥
अनन्यसामान्यगुणत्वमेव भवत्यनर्थाय महाकवीनाम् |
ज्ञातुं यदेषां सुलभाः सभासु न जल्पमल्पप्रतिभाः क्षमन्ते ॥ २३ ॥
अलौकिकोल्लेखसमर्पणेन विदग्धचेतः कषपट्टिकासु ।
परीक्षितं काव्यसुवर्णमे तल्लोकस्य कण्ठाभरणत्वमे ॥ २४ ॥
किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण ।
किंजातु गुजफलभूषणानां सुवर्णकारेण यनेचराणाम् ॥ २५ ॥
पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि ।
भूपाः कियन्तो न बभूवुरु जानाति नामापि न कोपि तेषाम् ॥ २६॥
लङ्कापतेः संकुचितं यशो यद्यत्कीर्तिपात्रं रघुराजपुत्रः ।
स सर्व एवादिकोः प्रभावो न कोपनीयाः कवयः क्षितीः ॥ २७ ॥
गिरां प्रवृत्तिर्मम नोरसापि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृद्मसिन्धुसंबन्धिर्ती मूर्धनि धारयन्ति ॥ २८ ॥
कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् ।
निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ॥ २९ ॥
एषास्तु चालुक्यनरेन्द्रवंश समुद्रतानां गुणमौक्तिकानाम् ।
मद्भारतीसूत्रनिवेशितानामेकावली कण्ठविभूषणं वः ॥ ३० ॥
लोकेषु सप्तस्वपि विश्रुतसी सरस्वतीविवमभूः स्वयंभूः ।
चत्वारि काव्यानि चतुर्मुखस्य यस्य प्रसिद्धाः श्रुतयश्चरात्रः ॥ ३१ ॥
एकस्य सेवातिशयेन शङ्के रुहस्यासनतां गतस्य |

I. 30. Ms. om, नरेन्द्र,
SKA.