पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

उमुर्तीधरसहघरैः पूरबन्यो यशोभि
स्तन्निःशेष क्षिति परिजयी कौरवं क्षेत्रमागात् ।
यत्र क्षत्रक्षतजपटले पार्थबाणाभिघाते:
कर्णभ्रष्टं कुरुपतियशोदन्तपत्तं ममज्ज || ६३ ||
यस्य प्रेयान्प्रथमतनयः कं न चक्रे सहर्ष
श्रीहर्षादप्यधिककवितोत्कर्षवान्हर्षदेवः ।
तीक्ष्णः स्वस्मिन्कनकवलये येन चक्रे रणेषु
क्ष्माभृच्चडामणिकषणतः कुण्ठधारः कृपाणः ॥ ६ ४ ॥
यस्यापूर्वी पदपरिणतिः कापि चर्याविचारे
वाक्चातुर्ये प्रसरति गतिवदिनां मौनमुद्रा |
प्रख्यातं तत्तिजगति पुनः सर्वभाषाकविल
यस्यास्वादे भवति सिकताकर्कशा शर्करापि ॥६५॥
येनोत्कण्ठा व्यसनगुरुणा दत्तपातास्तरुण्यः
स्वस्मिन्मूर्छाक्लमपरवशा वाष्पपङ्के लुठन्ति |
तासां गण्डस्थलमुवे पुनः पाण्डिमा वर्ण्यते कि
यत्र स्पष्टीभवति शपथैः श्रोत्रयोर्दन्तपत्तम् || ६६ ॥
दुर्ग प्राप्य क्षितिपतियशोधाम यस्यानुस
कस्याकार्षीन्न खलु पुलकोत्कर्षमुत्कर्षदेवः ।
येनारोग्य स्थभुजशिखरे निर्मिता दूरमुख


म्लेच्छ क्षोणोपतिहरखुरक्षोदमुद्रादरिद्वा ।। ६७ ॥
नानापरी विजयम इति प्रतापी
भूपस्य तस्य तनयो नयनाभिरामः ।
पुष्पोपहारयति नूतनदन्तकान्त्या

.XVIII, 65 शिकता ● Ms. [स° १८