पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १८] विक्रमाङ्कदेवचरितम् ।

वाग्देवता व्यक्ति यस्य मुखे प्रवेशम् ॥ ६८ ॥
नित्याभ्यासात्परिणतलिपेः स्रष्टुराश्चर्यलेख
तळाषण्यं वपुषि ललिते तस्य भूपालसुनोः ।
यत्र स्फूर्जल्लटभललनालोकलोमैकपात्रे
जागर्ति ज्यानिनदमुखर: संततं पुष्पचापः ॥ ६९ ॥
तस्मादास्त प्रवरपुरतः सार्धगव्यूतिमात्रों
भूमीं त्यक्त्वा जयवनमिति स्थानमुत्तुचैत्यम् ।
कुण्डं यस्मिन्नमलसलिलं तक्षकस्याहिभर्तु-
धर्मध्वंसोदा तकलिशिरश्छेदचक्रत्वमेति ॥ ७० ॥
यस्यास्ति खोनमुख इत्युपकण्ठसीनि
ग्राम: समग्रगुणसंपदवाप्तकीर्तिः ।
आलानरूपबहुयूपवति प्रविष्टं
नो यत्र बन्धनभियेव कलिद्विपेन ॥ ७१ ॥
ब्रूमस्तस्य प्रथमवसरद्भुतानां कथानां
किं श्रीकण्ट व शुशिखरिकोडलीलाललाम्म्रः ।
एको भागः प्रकृतिसुभगं कुङ्कुमं यस्य सूते
द्राक्षामन्य: सरससरयूपुण्ड्रकच्छेदपाण्डुम् ॥ ७२ ॥
कर्त की तिप्रणाये कुशलाः कौशिकं गोलमुच्चै
स्तत्र ब्रह्मप्रवणमनसो ब्राह्मणाः केचिदासन् |
• या काश्मीरक्षितितिलकतां मध्यदेशावतंसा-
न्गोपादित्यक्षितिपतिरसौ पावनानानिनाय || ७३ ॥
कीर्ति येषां शतमखसखीमुत्सुकानामवाप्तुं
धूमस्तोमे मखपरिचिते पूरयत्यन्तरिक्षम् ।

XVIII. 72, सरससयू● Ms. ES