पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवचरितम् |

दृष्ट्वा यस्मिन्नभिनयकलाकौशलं नाटकेषु
स्मेराक्षीणां मसृणकरणासङ्गदत्ताङ्गहारम् |
रम्मा स्तम्भं भजति लभते चित्रलेखा न रेखां
नूनं नाटये भवति च चिरं नोर्वशी गर्वशीला ॥ २९ ॥
यस्मिन्नुर्वीपतिगृहततेस्तुङ्गिमा वर्ण्यते किं
तस्याश्च ञ्चचतुरवनिताभूषितानेकभूमेः ।
जाने यस्यां कुसुमधनुष: स्वर्गरामामनांसि
क्रीडा वातायन कृतपदस्यैव लक्षीभवन्ति ॥ ३० ॥
यत्र स्त्रीणां मसृणघुसृणालेपनोष्णा कुचश्री.
स्ता: कस्तूरीपरिमलमुचः पट्टिका रामवाणाम् ।
नौपृष्ठस्थाः शिशिरसमये ते वितस्ताजलान्तः
स्नानावासा: प्रचुरमपि च स्वर्गसौख्यं दिशन्ति ॥ ३१ ॥
वक्कन्यस्तैस्तुहिनशकलेन्तुरा वारिकुम्भाः
काश्मीरीणां सरसकदलीकोमला गात्ररेखाः |
भीष्मग्रीष्मक्कमविरतये सर्वसाधारणत्वं
यस्मिन्त्रायान्त्यपि हिमशिलाशीतलानि स्थलानि ॥ ३२ ॥
सत्यत्यागप्रमुखनखिलोत्कर्षसंपत्तिसीमा
तस्मिन्म/सीदवनियनितावल्लभोनन्तदेवः |
वैरिस्तम्बेरमघनघटागर्जितानामगम्बे
[स° १८
- चक्रे धारापयसि यदसे: कोर्तिहंसीनिवासम् ॥ ३३ ॥
दवा शोकं शकपरिवढप्रौढसीमन्विनीनां
येन क्रीडाविदलितदरदीर्घदर्पः कृपाणः |
अस्पृश्यानामिव परिचपाहिवता दोषशङ्कां

XVIII. 32 ° शकलेव Mg.