पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ विक्रमाङ्कदेवचरितम्

न्हर्षोत्ताला: सरणिषु रणत्काञ्चयः संचरन्ति ॥ १७॥
देवोद्य नेष्वपि तिलकतां पुण्ययोगादषाप्ते-
विस्मर्यन्ते न खलु निखिलाश्चर्थसारा यदीयाः ।
श्रीखण्डाम्भःस्त्रपितमुरलप्रेयसीगण्डपाण्डु.
द्राक्षाखण्ड स्तव कितलतामण्डपास्ते वनान्ताः ॥ १८ ॥
अस्स्यन्योन्यप्रथितलहरीदोले ताबन्धबन्धु-
मध्ये यस्य क्षपितकलुषः संगमः पुण्यनयोः |
यस्योत्सङ्गे. हलधर कृतास्ते जयन्त्यग्रहारा
ये धर्मस्य क्षतकलिभयाः शैलदुर्गा भवन्ति ॥ १९ ॥
यस्मिन्किचिन्न तदुपवनं यत्र नो केलियापी
नैषा वापी न विषमधनुष्कार्मणं यत्र रामाः ।
नासौ रामा मनसिजकथाघातभग्रा युवानः
कामं यस्यां न निविडतरप्रेमबन्धे पतन्ति ॥ २० ॥
यत्रूषायां विहितवपुषस्तस्य विश्वैकबन्धोः
स्फूर्तिः कीर्ति: परमनुपमा सापि विद्यामठस्य |
यस्मिन्त्रङ्गीकृतकलकला मेखलाः कामिनीनां
पृष्ठे लमं कुसुमधनुषरुयक्षमण्याक्षिपन्ति ॥ २१ ॥
वैतस्तानां स खलु पयसां संगमो यत्र चर्या-
मर्यादायाः कृतयुगभुवः पात्रभूतोद्भुतश्रीः ।
दोलालीलातरलगतिषु प्रेङ्खिन्ता यत्तरंगे-
रुसङ्गेषु त्रिदशसुदृशां देहभाजः पतन्ति ॥ २२ ॥
सत्पर्यन्त स्थित गुणनि कामण्डपं यत्र धत्ते

[स° १८ XVIII. 18. श्रीषंडाभः; यदा: Ms.- XVIII. 21. परमु° MB.XVIII. 22. माता Ms.