पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स. १७] विक्रमाङ्कदेवचरितम् । १४७

विपक्षशस्त्रक्षपणैः पुनः पुनः क्षताखिलग्रन्थि निजास्थिपञ्जरम् |
चकार चण्डद्युतिमण्डलोदरे सुखप्रवेशार्थमिवापरी भटः ॥ ५१ ॥
पदॆषदे शोणितपङ्कपातिनी दिनेश्वरस्य प्रतिबिम्बमालिका |
अवापदापानकुतूहलागतक्षपाचरस्त्रीचषकोपमेयताम् ॥ ५२ ॥
लघु प्रहतु प्रतिपक्षमक्षमः प्रविष्टनाराचचयातिभारतः ।
भटेन केनापि सरोषमोक्षितः प्रभूसवैलक्ष्ययता निजो भुजः ॥ ५३ ॥
भटेन नीतः श्रुतिहस्तखण्डनान्महाकरी निग्रहणोचितं विधिम् ।
ममज्ज लज्जामिव धारयन कृशानुवर्ण संधरापगाभरे ॥ ५४ ॥
रदथेन स्फुटितेन पाटनात्परिस्फुटद्दन्त चतुष्टयद्युतिः ।
अमर्त्यभाव भटपेटके भजत्यमर्त्यदन्तित्वमवाप कुञ्जरः ॥ ५५ ॥
विषाणिनां तीक्ष्णखुरप्रखण्डतास्तरीय राङ्करायुताः ।
. सुरप्रसूनावलिशङ्किभिर्भटर्न वञ्चितताकुटेण्याडयन् ॥ १६ ॥
निवेशनीयौ न शिरीषकोमली भुजौ त्वया संवरणज: पदे ।
महाघपुष्पे समयंत्र मेनके कुमालिकास्ते कलयन्ति लब्धताम् ॥५७ ॥
न भर्तृदुर्भिक्षमिहारित किंचन किमन्यया स्वीकृतमेव वाञ्छसि ।
विलोपयिष्यन्ति तव प्रगल्भतां स्वयं परीक्षाविषये सुराङ्गनाः ॥५८॥
अमी विमानेष्वधिरोपितास्त्वया मुधैव मूर्छामुकुलीकृतेक्षणाः ।
भवाव्य संज्ञां कृतफालमुत्सुकाः पतन्ति पश्य प्रधनाङ्गणे पुनः ।
विभिन्नमर्यादममुष्य चेष्टितं भटस्य पश्य प्रथमातिथेरपि ।
विमानवातायनतो यदन्यया विलोकितस्तां प्रति सत्वरोभवत् ||६०||
कयात्र माला प्रथमं समर्पिता न वेद्मि वादे युवयोस्तदन्तरम् ।
देष सौभाग्य निधिर्भटाग्रणीः करोतु वाचा स्वयमेष निश्चयम् ||६ १॥

XVII. 53. °मीक्षत: Me. -- XVII. 56 ° स्तबूरमु; रोकायु° M.B.. XVII. 5S किंचन omits Ms.