पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवचरितम् ।

अयच्छत स्वच्छमतीय काञ्चनं विशङ्कय यस्मात्कनकक्षमाधरः |
अदर्शयत्कालिकयेव संगति स्वनि संक्रान्तिनिमान्नमः श्रियः ॥ ४०॥
प्रदानलीलारसिक: प्रतापवान्विधाय रिक्तानि कुलानि भूभुजाम् ।
अपूरयत्सोर्थिगृहाणि हेमभिर्यशोभिराशावदनानि चोज्ज्वलैः ॥ ४१ ॥
कृतस्थितिमूर्धनि चक्रवर्तिनां स विश्वचक्रद्धिविधानतत्परः |
उदारशीलः प्रतिकूलतामगा रिद्र निर्माण परस्य वेधसः ॥ ४२ ॥
विषक्षदुर्भिक्षक दधिश्चिरं स शौर्यकण्डुलभुजः क्षितेः पतिः ।
निशम्य चोलं बलगर्वित पुनर्जगाम काञ्च समनी कतृष्णया ॥४३॥
श्रियः समुत्थापनवार्थि मन्थनं कलिप्रियस्येक्षणपारणं मुनेः ।
ऋथापणं निर्जरपण्ययोषितां क्रमेण तो तत्र रणं वितेनतुः ॥ ४४ ॥
महाभटानां करवालपष्टयः समुच्छलद्वीररसोमिनिर्मलाः ।
विनिर्गताः कोशबिलोदरात्ततः कृतान्तपाशोरगसंनिभा बभुः ॥ ४५ ॥
परस्परं मत्सरतः प्रधाविताः प्रभूतसौभाग्यवशाज्जयश्रियः ।
किमप्यखिद्यन्त बलद्वये भटाः पुरोगतैः शीघ्रतया शरैरपि ॥ ४६ ॥
हृदि प्रविष्टं दशनं निजासिना निकृत्य कञ्चित्करिणं न्यवारयत् ।
चकार रन्ध्रे कृतकीलकार्पण: प्रतिक्रियां जीवविनिर्गमस्य च ॥ ४७ ॥
अतिष्ठदंशे सुमटस्य चञ्चलं शिरः क्षुरप्रेण मदर्धखण्डितम् ।
तदेव वामेन विधृत्य पाणिना प्रभावितः कं न चकार वन्दिनम् ॥४८॥
सकङ्कटः कश्चिदुरस्त त्रुटस्पृषत्कनिष्ठ यूत हुताशनो भटः ।
विषेद नो धूमलताभिशहूया मुखे कृपाणं रिपुणा निवेशितम् ॥४९॥
रदाङ्कुरप्रोतमरातिदन्तिना मुखं दधानः पुलकोत्कराञ्चितम् |
पिबन्त्रिवालक्ष्यत कोपि लीलया मृणालदण्डेन यशः सुधारसम् ॥ ५० ॥

XVII. 40 प्रयछत Ms.XVII. 42. उदारशील म विनिर्गता को " Ms. ~~XVII. 49. रिपुना Ma. - XVII. 50. Ms. XVII. 45. राञ्जतं Ms.