पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ विक्रमाङ्कदेवचरितम् |

अवैमि नारायणनाभिपङ्कजं न लभ्यते यत्र मधुव्रतोत्करैः ।
दिवानिशं येन विनिःसरन्ति ते निभेन कालागुरुधूपसंपदाम् ॥१८॥
यदीयशृङ्गेषु विभाति मौक्तिकप्रभामरैः काञ्चनकुम्भमण्डली |
तृषा विनिक्षिप्य मुखं तुरंगमैः कृता खरांशोरिव फेनसङ्गिनी ॥१९॥
पुरंधनृत्येषु विनिर्यदंशुभिः प्रसर्पदानन्दजलैरिवेक्षणैः ।
श्रियं सजीवा इव यत्र संततं वहन्ति रत्नोत्करशालमञ्जिकाः ॥२०॥
वितानरत्नप्रतिबिम्बडम्बरैर्विभान्ति यत्प्राङ्गणसोम्नि लासिकाः ।
अवाप्त विद्याधरराज सुन्दरीपदा इव व्यारेन विहर्तुमुद्यताः ॥ २१ ॥
अकारयत्कारणमानुषः पुरस्तडागमेतस्य स रुद्ध दमखम् ।
उपैति येनानुपमश्रिया तुलामसौ गतश्रीः कथमम्मसां निधिः ॥ २२ ॥
नमःस्रवन्त्या इव शेषवारिभिः परिच्युतैरच्युत पादपद्मतः ।
प्रविश्य देवालयगर्भमागतैर्विपाण्डुभिर्यः सलिलैविंशोभते ॥ २३ ॥
प्रदानलोभादिव भर्तुरस्य चेत्कदाचिदागच्छाते कुम्भसंभवः ।
छिनाझ तर्पमितीय यस्तटत्रुटटिङ्कोर्मिरवेण गर्जति ॥ २४ ॥
• किमादृतक्षारपयोधिसंगमा बिभाष भागीरथि दुर्भगाव्रतम् ।
इसीव यः कर्षात हर्षगद्गदस्तरंग हस्ते नमसः सुरापगाम् ॥ २५ ॥
अवाप्तबन्धेन लघुत्वम ब्धिना वितर्क्स पित्रा सुरराजकुञ्जः ।
प्रसूतमात्मानमनिन्दितात्मनो प्रवीति यस्माद्भुषमभ्रमोः पुरः ॥२६॥
निपीय यत्पाथसि नूनमम्बुदैवापिते शुक्तिषु मौक्तिकश्रियम् ।
पुराणमुक्तामणिभिर्न लप्स्यते कुचस्थलारोहण मेणचक्षुषाम् ॥ २७ ॥
अपास्य पाथोधिमसंख्यानेन्नगामुखार्पणोच्छिष्टमरोच कादिव ।
तपात्यये जह्रुरुपान्तशैलजाः कुमारतां यस्थ सगर्वमापगाः ॥ २८ ॥

XVII. 20 सालभंजिका: Ms.–XVII. 23. नम: श्रवं Ms. - XVII. 26. बतीने Ms.