पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स १७] विक्रमाङ्कदेवचरितम् ।

दिशः कृताः संतततूर्यनिस्वनैरलक्ष्यदिकुञ्जरकण्ठगर्जिताः ।
पुरेपुरे संततमुत्सवादभूदुजांशुकप्रावृतभास्करं नमः ॥ ७ ॥
उदारशौर्यैकरसः क्षमापतिः स निर्विनोदः समरोत्सयं विना |
समापिताशेषमदान्धभूपयोरसेवकत्वं भुजयोरमन्यत ॥ ८ ॥
क्रमाद्जायन्त निजाकृतेः समाः कुलप्रतिष्ठानिधयोस्य सूनवः ।
अनन्यसाधारणपुण्यशालिनां फलन्त्ययत्नेन मनोरथद्रुमाः ॥ ९ ॥
सुवर्णवातायनतुङ्गभूमिषु स्थिताः प्रमोदं ददुरस्य नन्दनाः ।
कृतास्पदाः स्वीयविमानशङ्कया प्रविश्य विद्याधरबालका इव ॥१०॥
अहं सदा प्राणसमं महीभुजामयं तु मां वेत्ति नृपस्तृणोपमम् ।
इतीव कर्णेषु सुवर्णमर्थिनां स्ववेदमाख्यातुमभूत्कृतास्पदम् ॥ ११ ॥
नरेन्द्र चामीकरचारूभूषणप्रभावलीसंगमपिङ्गलत्विषाम् ।
इतस्ततः कोषभियेव दुर्गतिर्मुमोच सङ्ग ज्वलतामित्रार्थिनाम् ॥ १२ ॥
शिरःस्थदेवालयपातभीतित: प्रगल्भते खण्डयितुं न मामयम् ।
इति ध्रुवं काञ्चनमूधरोभवन्महीभुजि त्यागिनि तत्र निर्भयः ॥ १३ ॥
इहागतः खण्डनमेव लप्स्यते पलायनार्थं कनकाद्रिरुच्यताम् ।
इतीव देशान्तरगामिनामभून्नरेन्द्र हेम श्रुतिलवमर्थिनाम् ॥ १४ ॥
कृतो निवासः कमलाविलासिनः क्षमाभुजा तेन नितान्तमुन्नतः ।
विभाति धर्मस्य समुद्रतो भुजः कलिच्छिदे क्ष्माबलयोदरादिव ॥ १५ ॥
नमोङ्गण व्यापिनमुष्णदीधिसेर्गुणद्वयं यं परिहृत्य गच्छतः ।
न लङ्घनं शार्ङ्गभृतः कृतं भवेत्तुरंगमाला च न भङ्गमञ्जुते ॥ १६ ॥
अयं स कण्ठीरवतामुपागमद्विपाटनार्थं दनुजेन्द्रषक्षसः ।
इतोष भीतः कमलापतेः स्थिति न यत्र धत्ते कलिकालकुञ्ञ्जरः ॥१७॥

१४३ XVII. 10. कृतास्पर्द: ● Ms. - XVII. 12 °त्रियेव Ms. - XVII. 13. त्याथिनि Ms. - XVII. 17. "विगदनार्थं Ms.