पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 विक्रम।ङ्कदेवचरितम् ।

नीरन्ध्रनीलनिचुलप्रचुरच्छदालि-
प्रच्छादितार्क किरणासु गिरिच्छलीषु ॥ ३३ ॥
देवस्य विक्रम निधेरथ सूकराणां
शैलानुकारिकरिणामित्र चक्रवालम् ।
स्त्रिह्यद्वराहगृहिणीपरिचुम्यमान-
मुस्तासुगन्धिमुखवालकमाविरासीत् ॥ ३४ ॥
गत्या पदानि कतिचित्पुरतः सग
पृष्ठस्थितान्प्रति मुहुः प्रतिपाठ्यन्तम् ।
बाणेन तत्र करिपीवरदेहमेकं
कक्षान्तरे क्षितिपतिः क्षपयांचकार ॥ ३५ ॥
केचिन्निपेतुरखनौ सह मार्गणेन
मार्ग कियन्तमपि केपि गताः सशल्याः |
वेरु: कठोरशरघोरणिपातमीत्या
शैलस्थलीषु विषमासु परे वराहाः ॥ ३६ ॥
विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशरश्चकार ।
पपात यन्त्रष्टधृतिर्वराहस्तं विव्हलाङ्गं वसुधा बभार ॥ ३७ ॥
क्रोड: सक्रीडमेतेन तरौ नाराचकीलितः ।
स° १६]
लीलामालानबद्धस्य दधे मुग्धस्य दन्तिनः ॥ ३८ ॥
वा निर्गतः कनकशृङ्खलया सदैव
कोपान्निरीक्ष्य विशतो गहने बराहान् ।
रुद्धस्तया विटपिकण्टक कीलकेषु
साक्रन्दकण्ठकुहरो मुहुरुत्पफाल ॥ ३९ ॥
रुद्धं विलोक्य हरिणं हरिणी गतापि
घ्यावृत्य बाणविषये नृपतेश्वचार ।

१३९