पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० विक्रमाङ्कदेवचरितम् ।

प्रायेण देहविरहादपि दुःसहोयं
सर्वाङ्गसंज्वरकरः प्रियविप्रयोगः ॥ ४० ॥
उड्डीय केपि निविडीकृतचापदण्डे
चालुक्यभूभुजि गता गगनं कुरंगाः |
सप्तर्षिमण्डलसमीपमित्र प्रविश्य
[स] १६
निर्बाधमाश्रममृगत्यमवाप्नुकामाः ॥ ४१ ॥
स्वयमस्य पयोदवारिधाराश्रममासाद्य पृषत्कधोरणीषु ।
शरगोघरमागतो मयूरश्छलतो दिव्यपयोदुराग्रहेण ॥ ४२ ॥
स चकार शिखण्डिमण्डलानां नृपतिस्तत्र तथा यथा बभूव ।
पथिकप्रमदासु कोमलाज्ञः कलकेका विकलः पयोदकालः ॥ १३ ॥
स्वेच्छाविहाररसिकस्य वनस्थलीषु
काकुत्स्थतः किमपि तस्य लघुत्वमासीत् ।
यस्माद्दशाननजयी रघुराजपुत्रः
पञ्चाननं तु निजधान चुलुक्यवीरः ॥ ४४ ॥
अपि शरधिविकृष्टौश्चिच्छिदे कङ्कपत्तै-
निकटमापे न रोहिद्रभिणीचक्रवालम् |
स्मरणसरणिमागाद्दर्भभारालसानां
विलसितम बलानां यइलाडूमिभर्तुः ॥ ४५ ॥
किंवा बहुप्रल पितैरबराहयूथ-
मुत्सन्केसरि करिसार्थम् ।
कुर्वन्नरण्यमुपसृत्य निषेव्यतेम
कुन्तलपतिः शिशिरश्रियापि ॥ ४६ ॥

I XVI. 41. निवडॉकू° Ms. - XVI. 44. काकुस्थत: Ms.--XVI. 46. कुन ळपतेः M..