पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । [स° १६ 2

प्रसाधिताशेषदिगन्तरस्य रेंजे यशोभ्यामिष दोर्युगस्य ॥ २३ ॥
व्योमाङ्गणस्थेन रराज वाजी झम्पासु तस्याग्रखुरद्वयेन ।
समुद्यतो मूर्धनि ताडनाय रोषादिवोष्णांशुतुरंगमाणाम् ॥ २४ ॥
तेजोनिधेस्तस्य तुरंगमोसो देहेन डिण्डीरविपाण्डुरेण ।
घर्मेण दग्धानिष नीलदेहान्सहस्त्ररश्मेस्तुरगामहास ॥ २५ ॥
तेजोविशेषात्परितोषितानां प्राप्येव वेगं मनसां सकाशात् ।
वाजी स राजीयमुखस्य तस्य विवेद वायोरपि पङ्गुभावम् ॥ २६ ॥
पर्याणमाणिक्यरुचां चयेन हरिप्रमस्यास्य हरिश्वकाशे ।
आपूरिताङ्गः खुरखण्डितारिभूपालरत्नाङ्गणपांसुनेव ॥ २७ ॥
जनस्य चित्रोल्लिखिताश्ववारहढासने तत्त्र निपत्य दृष्टिः ।
भ्रान्ता तुरंगभ्रमिपृष्ठलग्रा श्रमादिवान्यत्र न गन्तुमैच्छत् ॥ २८ ॥
संचारिणी मन्मथराजधानी लीलावनं विभ्रमपल्लवानाम् |
अन्तःपुरं तस्य जगाम पृष्ठे परा प्रतिष्ठा रसनायकस्य ॥ २९ ॥
वाराङ्गनास्तस्य तुरंगमेषु भूकार्मुकारूढकटाक्षवाणाः ।
विरेजिरे दिग्विजयोद्यतस्य सेना इवानङ्गनराधिपस्य ॥ ३० ॥
पापाईलीलासरसोमरालाः कृतान्तदूता मृगपोतकानाम् ।
हिंसाकटाक्षा इव चित्रवर्णाः श्वानः प्रसस्रुः पुरतस्तदीयाः ॥ ३१ ॥
त्रैलोक्यलङ्घनकुतूहलिना हयेन
देवः कियन्तमपि मार्गमसौ विलङ्घ्य |
कर्णान्तसंघटितनेत्रपुटो ददर्श
व्यालोलमत्तहरिणानि वनान्तराणि ॥ ३२ ॥
सार्धं प्रियेण कियतापि परिग्रहेण
स प्राविशद्विशदकोर्तिकृतावतंसः |

XVI. 27. शुनेव Ms. - XVI. 33. °मत्रहरिणाने, १३८