पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १६] विक्रमाङ्कदेवचरितम् ।

अक्षिप्यन्त तुषाराद्विवायुस्फुटनशङ्कया ।
कान्ताभिः कुङ्कुमालेपनिचुलेषु मुखेन्दवः ॥ १२ ॥
पुण्ड्रेक्षपाकपूतानि क्षेत्राणि दधि मांसलम् ।
आसीत्कुङ्कुमचर्चा च हन्त हेमन्तजीवितम् ॥ १३ ॥
मद्वैरिणः कठोरांशोरियं प्रणयभूरिति ।
१३७
रोषादिव तुषारेण निरात पद्मिनी ॥ १४ ॥
समक्षमपि सूर्यस्य पर्यभूयत पद्मिनी ।
तेजस्विनोपि कुर्वन्ति किं कालवशमागताः ॥ १५ ॥
अङ्गेषु स्पर्शसौभाग्यमपि सामान्ययोषिताम् ।
परिपोषित कन्दर्पस्ततान तुहिनागमः ॥ १६ ॥
विहारयोग्येषु दिनेषु तेषु देवश्चुलुक्यान्वयचक्रवर्ती ।
भृगेन्द्रगामी मृगयां विधातुं स निर्जंगाम स्वभुजार्जितश्रीः ॥ १७ ॥
स यारबाणेन रणैकवीरः श्रियं दधे नीरदमेचकेन ।
भ्रामुक्तनीलोत्पलकङ्कटस्य देवस्व चूताङ्कुरकार्मुकस्य ॥ १८ ॥
स कञ्चकस्योपरि नीलभासः स्थितेन हारेण रराज राजा |
समेघनक्षत्रगणोवतीर्णो विद्याधरः कश्चिदेवाम्बराग्रात् ॥ १९ ॥
सहागतान्तः पुरसुन्दरीभिरुदारहारप्रतिम्बिताभिः ।
वक्षःस्थले तस्य कलत्रमाद्यं रराज लक्ष्मीः सपरिच्छदेव ॥ २० ॥
बमार हारावलिमौक्तिकानि वक्षःस्थलेन स्फटिकोज्ज्वलेन |
उच्चैः स्थितस्य प्रतिबिम्बितानि स कुङ्गलानीव यशोमस्य ॥ २१ ॥
नेत्राभिरामं दधता प्रपञ्चं नोलातपत्रेण स राजतेस्म ।
खण्डेन लक्ष्मीकुल मन्दिराणां नीलोत्पलानामिव राजहंसः ॥ २२ ॥
द्वयोर्दिशोः फेनविपाण्डुराभ्यां स चामराभ्यां पृथिवीतलेन्द्रः ।

XVI. 17. विधायतुं Ms. - XVI. 18. भूना ° Ms.