पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । [स° १५

यदमीषु सरोषमाविशनुपरि न्यस्तपदा पदाशयः ॥ ५० ॥
शिरसा सुभटस्य दर्शितं शरलूनेन महत्कुतूहलम् |
च्युतमप्यवनौ हि विद्विषि माहेतं लोचनमाचकर्ष यत् ॥ ५१ ॥
असिघट्टनतः परस्परं पतिता वडिकणा रणाङ्गणे ।
अलभन्त पिशाचयोषितां प्रियतामामिषपाककर्माणि ॥ ५२ ॥
गलितद्विपकुम्भ मौक्ति कच्छलतो व्योमनिमासिमण्डली |
विनिमीलिततारकाषदज्जयतिग्मांशुभिषोदयोन्मुखम् ॥ ५३ ॥
हृदयस्थितबाणमूर्छया करिकुम्भस्थलपीठशायिनाम् ।
अभवन्नुपकारहेतवञ्चलकर्णव्यजनानिलोर्मयः ॥ ५४॥
विरराज नमन्महाकरी भटवक्षःस्थलभेदलम्पटः ।
अवनम्य रणाङ्गणस्थितां जयलक्ष्मीमधिरोपयन्भिव ॥ ५५ ।।
अभवद्दलमेतदन्तरे सकलं कुन्तलचक्रवर्तिनः ।
प्रतिपक्षगजप्रधावनक्षुमितं दिक्षु विलक्षमास्तृतम् ॥ ५६ ॥
न स कोपि महोद्धुरः करी न सुरंगो न पटुर्महाभट: ।
विचचार न यः परामुखः प्रतिपक्षप्रलयानिलाइतः ॥ ५७ ॥
पुलकप्रणयं कपोलयोरथ चालुक्यनृपः प्रकाशयन् ।
उतिष्ठदपारपौरुषः स्त्रयमुद्दाममदेन दन्तिना ॥ ५८ ॥
दलयन्रिपुकीर्तिकन्दली रणलीलासरसीमृणालिकाम् ।
करिमेघघटाश्च पाटयन्नतनोदद्भुतराजहंसताम् ॥ ५९॥
क्षतकुञ्जरकुम्भमौक्तिकैनिंपत द्भिर्मुकुलानुकारिभिः ।
रिपुषीरयशःक्षमारुह्यं स भुजाभ्यां निजगाद काम्पतम् ॥ ६० ॥
रिपुवारणकुम्भमण्डलीं प्रदरनिर्गहनः क्षमापतिः ।

XV. 51. हि om. लकु● Ms.- XV. 59. ALW Ms.- XV 52. प्रियतामिष Ms. - XV. 56. सक 'लीलस ° Ms.