पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

प्रबलेन भुजद्वयेन ये बहुशस्तीर्णमहाहवाणवाः ।
यशसः प्रणयित्वमागताः पृथुडिण्डीरकलापाण्डुनः ॥ ३९ ॥
समदप्रतिपक्ष
मनाइहुशस्त्रव्रणगर्तशालिनि ।
॥ ४१ ॥
निखिलेपि यदङ्ग बिस्तरे विदधे बीररसः समाश्रयम् ॥ ४० ॥
तिमिरैरिव पिण्डतां गतेदवदम्मैरिव घर्मवासरैः ।
बहुमिः सुभटैस्तथाविधैर्यदसंभाव्यपराभवागमम्
परिभाव्य नितान्तभैरवं तदतिक्रान्तदिगन्तरं बलम् ।
कतरो न जगाम संभ्रमं मुमुदे कुन्तलपार्थिवः परम् ॥ ४२ ॥
विजयामृतकर्षणोद्यतैः सुभदैर्वीररसाम्बुस्ततः ।
प्रलयप्रतिमं द्वयोदिशोः समुपाक्रम्पत युद्धमुद्धतम् ॥ ४३ ॥
अधिरुह्य बलद्वये बलाद्भुतदण्डैः परिदोलनोद्यते ।
समरमतः फलावलिनिपपातेव शिरः कदम्बकैः ॥ ४४ ॥
सुभटस्य निहत्य वल्गतः सममेव प्रतिपक्षवीरतः
अविशद्दशि शोणितच्छटा हृदये खङ्खलता च संमुखी ॥ ४५ ॥
असिना विनिपत्य लोलतां गमिते मूर्धनि भङ्गशक्तितः ।
मुदमाप जयामृताशया सुभटस्तन पृषत्ककीलिते ॥ ४६ ॥
क्षतचञ्चपुटा विघट्टनान्मुकुटे रत्नमये शकुन्तयः ।
न सहर्षमकार्षुरथितां परमार्थामिषपिण्डकेष्वपि ॥ ४७ ॥
अवलमय शनैरगाधतां रुधिरस्त्रोतास मार्गरोधिनि |
न परस्पर दर्शनेण्यभूसमटानां क्षणमाहवोत्सवः ॥ १८ ॥
गुणवादपरायणा गिरः स्मितसंदिग्धविरोधमोक्षितम् ।
परुषत्वमुवास केवलं करवालेषु भुजोष्मशालिनाम् ॥ ४९ ॥
पतितेषु शिरःस मानिनामिदमासीदवमाननास्पदम् ।

XV. 41.0 देवदारिव Ms. XV. 44. फळावळोनि Is. - XV. 46. लोलतो Ms.