पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

B [स १२८ विक्रमाङ्कदेवचरितम् |

रिपुराजशिरःमु शेखरस्थितरत्नाङ्करकण्टकालिषु |
भ्रमणक्षमतां दधुः खुरास्तुरगाणां कृतलोहबन्धनाः ॥ ७ ॥
रणलम्पटमत्तकुञ्जरं स्फुरद वीयसहस्त्र संकुलम् |
तदनेकमटोद्भटं बलं क्षुमितस्याप लिपिं पयोनिधेः ॥ ८ ॥
करिणः करशीकरोत्करै: प्रहितैः क्षमापतिमन्दिरोदरे |
सिषिचुः क्षितिपस्य हृद्भतां विजयाशां कुसुमावलीमिव ॥ ९ ॥
दृशमम्बुरुहामित्र स्रजं विजयश्रीपरिरम्भशंसिने |
स्फुरणप्रवणाय बाहवे बहुमानेन समर्पयन्नृपः ॥ १० ॥
पुलकाङ्कुरकण्टकोत्करानतिरागादविजानतीमिव ।
वपुषा समश्रियं दधन्निविडालिङ्गनगाढकौतुकम् ॥ ११ ॥
हसितेन विनिःसरन्मुख स्थितकर्पूरपरागपाण्डुना |
घटयन्प्रतिराजपङ्कजगलपनार्थ तुहिनच्छटाभित्र ॥ १२ ॥
वलयोदररत्नदर्पणप्रतिबिम्बच्छलतो निजाकृतेः |
हारणव विपक्षसंक्षयव्रतमाजानुजयोरधिष्ठितः ॥ १३ ॥
धनचन्दनलेपपाण्डुना वपुषा पोषितलोचनोन्सवः ।
परितः स्फटिकक्षमामृता दधता कतामिवाश्रितः ॥ १४ ॥
घृतमङ्गलमौक्तिकाक्षतः क्षणदानाथ इवामलद्युतिः |
मदवारणमन्थरैः परथ निष्क्रम्य चतुष्कवश्मनः ॥ १५ ॥
त्वरयाधिरूपेह दन्तिनः कृतपूजय स पृठमादत् ।
सह मङ्गलतूर्यनिःस्वनैर्ऋदयादेवि शृङ्खमयमा ॥ १६ ॥
क्षितिपेन करी विभूषितस्तरुणीनेत्रसहस्रना |

XV. 10. शंसने Ms. XV. 12 लण्डना Ms.-- XV. 15. "काकृत: क्ष० Ms.; निःक्रम्य BMr.-XV. 16. Ms. After 10 Ms. adds क्रियाकुलकन