पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १४] विक्रमाङ्कदेवचरितम् |

कुन्तलेन्दुरभवत्कृपावशात्तत्र राज्यमपि दातुमुत्सुकः ।
कः प्रसन्नमनसां यशोर्थिनां श्रीसमर्पणविधी परिश्रमः ॥ ४८ ॥
प्राहिणोत्कति न सान्त्वनक्रमांस्तत्समीपमनिशं विशांपतिः ।
एकमप्यनयवायुलखित नाग्रहीष्ट कुलकण्टकस्तु सः ॥ ४९ ॥
वैशसस्य कथमस्य शान्तिरित्येष यावदनुकम्पया स्थितः ।
ताबदद्भुतभुजावलेपतः कृष्णवेणितटमाजगाम सः ॥ ५० ॥
भूपमेनमपहाय तञ्चमूमाश्रिताः कति न मण्डलेश्वराः ।
जायते मतिविपर्ययो नृणां प्रायशः परिभवे भविष्यति ॥ ५१ ॥
षीक्ष्य स द्विपघटाः कटस्थली निर्लुटइहलदान निर्झराः |
वाजिनश्च चटुलानमन्यत ज्येष्ठयोधनविधाषकुण्ठताम् ॥ ५२ ॥
तच्च मूपरिकरेण पीडिता कृष्णवेणिरधिगम्य तानवम् ।
सिन्धुपार्श्वमिव गन्तुमक्षमा रोषतः कलुषतामदर्शयत् ॥ ५३ ॥
क्कापि दाहमपरत्र लुण्ठनं बन्धनं क्वचिददाज्जनस्य सः |
पातचिन्हमिव तस्य भूयसी दुष्टचेष्टितपरंपराभवत् ॥ ५४ ॥
तस्प दुर्नयपरंपरामसौ चक्षमे चिरतरं क्षमापतिः ।
तादृशैरमलसत्त्वराशिभिः स्पर्धेितुं जलधयोषि नेश्वराः ॥ ५५ ॥
दुर्वचति सविधे धरापतेः स उपसर्जयदनङ्कशोनिशम् |
अश्रिया जडविय: कटाक्षिताः किं तदस्ति न समाचरन्ति यत् ||५६ ॥
ब्रूमहे किमधिकं तथा मुहुस्तन्त्र संस्तवमवाप चापलम् ।
तं प्रति प्रचलातरम विस्मितः सत्वरं वसुमतीपतिर्यथा ॥ ५७ ॥
पूरितः प्रतिरवेण दिग्गज श्रोत्रश सकुहरप्रसर्पिणा |
दुन्दुभिध्वनिरभूयं ततस्तस्य मङ्गलाननादानेर्भरः ॥ ५८ ॥
न क्षितीन्द्रपटहस्वनोभवद्दिक्करिश्रवणपाटने पटुः ।

XIV. 53. निर्जरा: Ms. - XIV 58. अयत्ततत्त● Ms.